________________
हरिवंशपुराणं।
५५२
.. पंचचत्वारिंशः सर्गः। द्रुपदोऽस्यास्तदा भूपस्तस्य भोगवती प्रिया । धृष्टद्युम्नादयः पुत्रा प्रत्येकं दृष्टशक्तयः ॥१२१॥ रूपलावण्यसौभाग्यकलालंकृतविग्रहा । द्रौपदी तनया तस्य द्रुपदस्योपमोज्झिता ॥१२२॥ तस्या कृते कृता सर्वे मनोवेगैर्नृपात्मजाः । सग्रहा इव याचंते नानोपायनपाणयः॥१२३।। दाक्षिण्यभंगभीतेन द्रुपदेन ततो नृपाः । विश्वे चंद्रकवेधार्थमाहूताः कन्यकार्थिनः ॥१२४॥ द्रौपदीग्रहवश्यानां काश्यप्यामिह भूभृतां । कर्णदुर्योधनादीनां माकंद्यां निवहोऽभवत् ॥१२५॥ सुरेंद्रवर्धनः खेद्रः स्वसुतावरमार्गणैः । धनुर्गाडीवमादेशादिव्यं तत्र तदाऽकरोत् ॥१२६॥ चंडगांडीवकोदंडमंडलीकरणक्षमः । राधावेधसमर्थो यो द्रौपद्याः स भवेत्पतिः ॥१२७॥ इतीमा घोषणां श्रुत्वा द्रोणकर्णादयो नृपाः । समेत्य मंडलीभूय कोदंडमभितः स्थिताः ॥१२८॥ देवताधिष्ठितायास्तैश्चापयष्टेः प्रदर्शनं । आसीत्सत्या इवाशक्यस्पर्शनाकर्षणे कुतः ॥१२९॥ भाविना स्वामिना पश्चादर्जुनेन सदर्जुना | दृष्ट्वा स्पृष्ट्वा तदाकृष्टा स सतीव वशं स्थिता ॥१३०॥ आरोप्याकृष्य पार्थेन धनुास्फालिता क्षितिः। भ्रांतं वधिरितं कर्णैः कर्णादीनां पटुध्वनौ ॥१३॥ वितर्कः कर्कशं दृष्ट्वा तं तेषामित्यभूदयं । सहजैः सहजैश्वर्यो मृत्वोत्पन्नः किमर्जुनः ॥१३२॥ धन्विनः स्थानमन्यस्य सामान्यस्येदृशं कुतः । अहो दृष्टिरहो मुष्टिरहो सौष्ठवमित्यपि ॥१३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org