________________
हरिवंशपुराणं ।
५५१
पंचचत्वारिंशः सर्गः । दिशावलीप्रिया राज्ञो दिशानंदा तु नंदना | दिशासु विदिताकारा दिशामिव विशुद्धता ॥ १०८ ॥ भीमो राजगृहे राज्ञा गंभीरस्वरदर्शनः । अदृश्यत दृशा कांता भिक्षार्थी किल रूपवान् ||१०९ ॥ ज्ञात्वा महानरं तं च कन्यामादाय तां नृपः । सांतःपुरः पुरः स्थित्वा जगाद मधुरं वचः ॥ ११० ॥ तवानुरूपकन्येयं दीयते प्रतिपद्यतां । भिक्षां प्रसारय श्रीमान् पाणि पाणिगृहं प्रति ॥ १११ ॥ अपूर्वेयमहो भिक्षा नेदृशीं प्रति सांप्रतं । स्वातंत्र्यमिति संभाष्य गत्वा तेभ्यो न्यवेदयत् ॥ ११२ ॥ सार्धं मासमिह स्थित्वा पुरे जग्मुरमी ततः । तरीत्य नर्मदां नर्मप्रवणां विंध्यमाविशत् ॥ ११३ ॥ संध्याकारेंतरद्वीपे संध्याकारे पुरे नृपः । हिडंबवंशसंभूतः सिंहघोषोवतिष्ठते ॥११४॥ देवी सुदर्शना तस्य सुता हृदयसुंदरी । मेघयेगः त्रिकूटेंद्रो याचित्वा तां न लब्धवान् ॥ ११५ ॥ यो हतिष्यति तं विंध्ये गदाविद्याप्रसाधकं । भर्त्ता हृदयसुंदर्या इति नैमित्तिकागमः ॥ ११६ ॥ द्रुमकोटरमध्यास्य साधयंतं खगं गदां । तयैव गदया सोंगं भीमोऽपाटयदेकदा ॥ ११७ ॥ ततो हिडंबसुंदर्या मीमसेनस्य संगमः । हिडिंबेन च संबंधः संबभूव महोत्सवः ॥११८॥ विनृत्य विविधान्देशान्दाक्षिणात्यान्महोदयाः । ते हास्तिनपुरं गंतुं प्रवृत्ताः पांडुनंदनाः ॥ ११९ ॥ माठा मार्गवशाद्विश्वे माकंदीं नगरीं दिवः । प्रतिच्छंदस्थितिं दिव्यां दधाना देवविभ्रमाः ॥ १२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org