________________
हरिवंशपुराणं ।
५४९
पंचचत्वारिंशः सर्गः। दाहदुःखमृतं कांतं युक्तं तेनैव वर्त्मना । अनुमतुं न तापस्ये शक्तिहीनतया स्थिता ॥८२॥ निशम्येति वचः सौम्या सा जगौ भाविनी स्नुषां । कृतं भद्रं त्वया भद्रे कुर्वत्या प्राणरक्षणं ॥३॥ अन्यथा चिंतयत्येषा मित्रे मित्रजनो जने । अन्यथा विधिरप्यस्मादय॑ते दीर्घदर्शिता ॥४॥ कल्याणहेतवः प्राणाः कल्याणि! मम वाक्यतः। तपस्यंत्यापि धार्यतां जीवंती भद्रमाप्स्यसि ।।८५॥ तदेवान्ववदत्पांडोः प्रथमस्तनयो यतः । धर्म चाकथयद्युक्तमणुशीलगुणवतैः ॥८६॥ परस्परं समालापे मनःप्रीतिकरेऽनयोः । वर्तमाने तदा कन्या मनसा मन्यतेति सा ॥८॥ राजलक्षणयुक्तः स किं स्यादेष युधिष्ठिरः । समातृकोनुशास्तीह मामतीव कृपान्वितः ॥८॥ सर्वथा मम पुण्येन गण्येन तपसापि च । सत्यसंधः प्रियो जीव्यादन्याहतिरिहोद्यमी ॥८९॥ यियासवस्तु युक्तानां पुनदर्शनमस्त्विति । सम्मानिता प्रियालापरयुरस्थाच साशया ॥९॥ समुद्रविजयः श्रुत्वा स्वसृस्वस्त्रीयमारणं । मारणाय कुरूणां स प्राप्तः कुपितमानसः ॥९॥ जरासंधस्ततः प्राप्य स्वयमेव महादरः । यदूनां कौरवाणां च संधिमापाद्य यातवान् ॥१२॥ इतोऽपि तापसाकारं त्यक्त्वेति द्विजवेषिणः । प्रयांतो भ्रातरः कुंत्या प्रादुरीहापुरं परं ॥१३॥ भीमसेनो महाभीमं भुंगामं मुंगराक्षसं । मनुजाशनमुद्वास्य तत्रास त्रासमंगिनां ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org