________________
हरिवंशपुराणं ।
५४८
पंचचत्वारिंशः सर्गः ।
पुनस्तापसवेषेण प्राप्ता श्लेष्मांतकं वनं । ते तापसाश्रमे रम्ये विसस्रमुरिहार्चिताः ॥ ६९ ॥ वसुंधरपुरेशस्य विंध्यसेनस्य देहजा । वसंतसुंदरीनाम्ना नर्मदाजास्ति तत्र च ॥७०॥ युधिष्ठिराय सा दत्ता पुरैव गुरुभिर्वरा । दग्धवार्तामुपश्रुत्य निंदितस्व पुराकृता ॥ ७१ ॥ जन्मांतरेऽपि कांक्षती तस्य कांतस्य दर्शनं । तपश्चरितुमारब्धा तत्र सा तापसाश्रमे ॥ ७२ ॥ उदाररूपलावण्या दुकूलपटसाटिका । जटिला वटशाखेव स्निग्धच्छाया व्यराजत ॥७३॥ आकर्णायतनेत्राभ्यां स्वधरेण मुखेंदुना । जघनस्तनभारेण मनोहरति तापसी ||७४ || पूज्या तापसलोकस्य सकलस्य तपोवनं । अकरोत्पावनं तन्वी चंद्रलेखेव निर्मला ||७५ || कौंतेयानां कृतातिथ्या तापसोचितवृत्तिभिः । जहार हारिवाक्यासौ क्षुत्पिपासापथश्रमं । ७६॥ कुंती प्रपच्छतां प्रीत्या बाले ! कमलकोमले । नवे वयसि वैराग्यं कुतो जातमिति व्रते ॥७७॥ इति सानुनयं प्रष्टा राजपुत्री जगौ गिरा । मनो मधुरया तेषां हरती हरिणेक्षणा ॥७८॥ साधु पृष्टं त्वया पूज्ये ! श्रूयतामत्र कारणं । सज्जनो हि मनोदुःखं निवेदितमुदस्यति ॥ ७९ ॥ कौरवाय पुरैवाहं कौंतेयायाग्रजाय हि । स्वभावोदारचेष्टाय गुरुभिर्विनिवेदिता ॥८०॥ समातृभ्रातृकस्यास्य मदपुण्यप्रभावतः । श्रुता वार्ता जनेभ्यो या न स्मर्तुमपि शक्यते ॥८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org