SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ५४६ हरिवंशपुलणं। पंचचत्वारिंशः सर्गः। भार्गवाचार्यकं द्रोणो धनुर्वेद विशारदः । कौंतेयधार्तराष्ट्राणां चक्रे मध्यस्थभावतः ॥४३॥ भार्गवाचार्यवंशोऽपि श्रृणु श्रेणिक वर्ण्यते । द्रोणाचार्यस्य विख्याता शिष्याचार्यपरंपरा ॥४४॥ आत्रेयः प्रथमस्तत्र तच्छिष्यः कौंडिनिः सुतः । तस्याभूदमरावतः सितस्तस्यापि नंदनः ॥४५॥ वामदेवः सुतस्तस्य तस्यापि च कपिष्टकः । जगत्स्थामा सरवरस्तस्य शिष्यः शरासनः ॥४६॥ तस्माद्रावण इत्यासीत्तस्य विद्रावणः सुतः । विद्रावणसुतो द्रोणः सर्वभार्गववंदितः ॥४७॥ अश्विन्यामभवत्तस्मादश्वत्थामा धनुर्धरः । रणे यस्य प्रतिस्पर्धी पार्थ एव धनुर्धरः ॥४८॥ पार्थप्रतापविज्ञानमात्सर्योपहता अथ दुर्योधनादयः कर्तुं संधिदूषणमुद्यताः ॥४९॥ पंच कौरवराज्यार्थमेकतः शतमेकतः । भुंजंति किमितोन्यत्स्यादन्याय्यामिति ते जगुः ॥५०॥ समुद्रा इव चत्वारस्ततः परुषवायुभिः । अपि प्रसन्नगंभीराः क्षुभिताः पांडुनंदनाः ॥५१॥ छादयामि द्विषच्छेलं शरधाराभिरुच्छ्रितं । इत्युत्थितोऽर्जुनोंऽभोदः शमितोऽग्रजवायुना ॥५२॥ दृष्टया दहामि दायादशतमित्युदितं ब्रुवन् । मंत्रणाशीसमज्ज्यायान् स्फुरद्भीमभुजंगमं ॥५३॥ अहिताय कुलांताय नकुलोऽपि कृतोद्यमः । ज्येष्ठेन सनयं रुद्धो भुजपंजरयंत्रितः ॥५४॥ भस्मयामि लघु द्वेषिवनखंडमिति ज्वलन् । अशामि ज्येष्ठमेघेन सहदेवदवानलः ॥५५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy