SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५४५ पंचचत्वारिंशः सर्गः । शरद्वीपश्च राजासौ द्वीपो द्वीपायतो नृपः । सुशांतिः शांतिभद्रश्व शांतिषेणश्च भूपतिः ॥ ३०॥ भर्त्ता योजनगंधाया राजपुत्र्यास्तु शांतनुः । तनयः शंतनोर्भूभृद्घृतव्यास इति स्मृतिः ॥३१॥ धृतधर्मा ततस्तस्य तनयोऽपि धृतोदयः । धृततेजा धृतयशा धृतमानो धृतो नृपः ||३२|| ततोऽपि धृतराजोभूतस्य तिस्रः प्रियांगनाः । अंबिकांबालिकांचाख्या वेद्याभिजनसंभवाः ||३३|| धृतराष्ट्रश्च पांडुश्च विदुरश्व विदांवरः । यथाक्रमममी तासां तिसृणां तनयास्त्रयः ||३४|| भीष्मोऽपि शांतनोरेव संताने रुक्मिणः पिता । यस्य गंगाभिधां माता राजपुत्री पवित्रधीः ||३५|| धृतराष्ट्रस्य तनया दुर्योधनपुरस्सराः । नयपौरुषसंपन्नाः परस्परहितेरिताः ॥३६॥ पांडोः कुंत्यां समुत्पन्नः कर्णः कन्या प्रसंगतः । युधिष्ठिरोर्जुनो भीम ऊढायामभवंस्त्रयः ||३७|| नकुलः सहदेवश्व कुलस्य तिलकौ सुतौ । मद्रयामद्रिस्थिरौ जातौ पंच ते पांडुनंदनाः ॥३८॥ पांडौ स्वर्गं गते देव्यां मद्रयां च जिनधर्मतः | पांडवा धार्तराष्ट्राश्च राज्येऽभूवन्विरोधिनः ||३९|| विभज्य कौरवं राज्यं भुंजतां समभागतः । पंचानामेकतस्तेषामितरेषां तथैकतः ॥४०॥ भीष्म विदुरो द्रोणो मध्यस्थाः शकुनिः पुनः । मंत्री दुर्योधनस्येष्टाः शशरोमादयस्तथा ॥ ४१ ॥ अजय सह कर्णेन वर्यं दुर्योधनस्य तु । जरासंधेन नैभृत्यं निभृतस्याभवत्तरां ||४२|| ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy