SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५४४ पंचचत्वारिंशः सर्गः । सुकुमारः सुतस्तस्य तस्माद्वरकुमारकः । विश्वो वैश्वानरश्वाभूद्विश्वकेतुर्गृहध्वजः ||१७|| विश्वसेनस्ततो जातो यस्यैरा प्राणवल्लभा । तत्सुतः पंचमश्चक्री शांतिः षोडशतीर्थ कृत् ॥ १८ ॥ नारायणो नरहरिः प्रशांतिः शांतिवर्धनः । शांतिचंद्रः शशांकांकः कुरुश्र कुरुवंशजाः ||१९|| एवमाद्येष्वततेषु सूर्योऽभूद्यस्य भामिनी । श्रीमती तीर्थ कृत्कुंथुस्तयोश्चक्रधरोऽपि सः ||२०|| अतिक्रतिषु भूपेषु ततोऽपि बहुषु क्रमात् । राजा सुदर्शनो जातो यस्य मित्रा प्रियांगना ॥ २१ ॥ तयोरर इति ख्यातः सप्तमश्चक्रवर्तिनां । कृती तीर्थकराणां च यतोष्टादशसंख्यकः ||२२|| ततः सुचारुश्चारुश्च चारुरूपोथ वीर्यवान् । चारुपद्मस्तथान्येषु समतीतेषु राजसु ||२३|| पद्ममालः सुभौमश्च जातः पद्मरथो नृपः । ततश्चक्री महापद्मो विष्णुपद्मो तु तत्सुतौ ||२४|| सुपद्मः पद्मदेवश्च कुलकीर्तिस्ततः परः । कीर्तिः सुकीर्तिकीर्ती तौ वसुकीर्त्तिश्च वीर्यवान् ||२५|| वासुकिर्वासवाभिख्यो वसुः सुवसुरेव च । कुरुवंशश्रियो नाथः श्रीवसुश्च वसुंधरः ॥ २६ ॥ जज्ञे वसुरथस्तस्मादिंद्रवीर्यश्च वीर्यवान् । चित्रो विचित्रो वीर्योथ विचित्रोऽपि महाबलः ||२७|| ततो विचित्रवीर्योऽभूत्ततश्चित्ररथो नृपः । महारथो वृतरथो वृषानंतो वृषध्वजः ||२८|| तो व्रतधर्मा च घृतो धारण एव च । महासरः प्रतिसरः शरः पारशरो नृपः ॥२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy