SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ५४३ हरिवंशपुराणं । पंचचत्वारिंशः सर्गः। गण्याह कुरुराजानामन्ववाये महोदये । शांतिकुंवरनामानो यत्र तीर्थकरावयः ॥४॥ आदितः कुरुवंश्यानां चतुर्वर्गोपसेविनां । कतिचिन्मागधा ख्यामि श्रृणु नामानि भूभृतां ॥५॥ कुरुजांगलदेशस्य कुरुभूमिसमस्य हि । अभूतां भूषणौ भूपौ यौ हास्तिनपुरे परे ॥६॥ श्रेयान् सोमप्रभश्चेति कुरुवंशविशेषको । नाभेयसमकालौ तौ दानधर्मस्य नायकौ ॥७॥ तत्र सोमप्रभस्याभूत्कुमारो जननायकः । मेघस्वरस्स एवात्र भरतेन कृताभिधः ॥८॥ तस्मात्कुरुरभूतस्मात्कुरुचंद्रस्तु नंदनः । ततः शुभंकरो राजा जातो धृतिकरस्ततः ॥९॥ राज्ञां कोटिषु कालेन समतीतासु भूरिषु । जिनांतरेषु चानेकसागरोपमकोटिषु ॥१०॥ धृतिदेवो घृतिकरो गंगदेवादयस्तथा । धृतिमित्रधृतिक्षेत्रसुव्रतवातमंदराः ॥११॥ श्रीचंद्रसुप्रतिष्ठाद्या व्यतीता शतशो नृपाः । धृतपद्मो धृतेंद्रश्च धृतवीर्यः प्रतिष्ठितः ॥१२॥ इत्यादिषु व्यतीतेषु धृतिदृष्टितिद्युतिः । धृतिप्रीतिकराद्याश्च व्यतीता कुरुवंशजाः ॥१३॥ ततो भ्रमरघोषाख्यो हरिघोषो हरिध्वजः । सूर्यघोषः सुतेजाश्च पृथुश्च पृथिवीपतिः ॥१४॥ इभवाहननामाद्याः समतीतास्ततो नृपाः । विजयाख्यो महाराजो जयराजस्ततोऽभवत ॥१५॥ ततः सनत्कुमारोभूच्चतुर्थश्चक्रवर्तिनां । रूपपाशसमाकृष्टसुरबोधितदीक्षितः ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy