SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५४२ पंचचत्वारिंशः सर्गः । भ्रात्रा हयपुरींद्राय सुमुखाय ततो हरिः । दीयमानां विदित्वैनां नारदादरमागतात् ॥४७॥ गत्वा हिमगिरिं हत्वा प्रतिकूलं रणाजिरे । तां हृत्वानीय सौम्यास्यामुपयम्य ससम्मदः ॥ ४८॥ पद्मावत्या गृहोपांते गांधार्यै भवनं वरं । वितीर्य धैर्यसंपन्नामेनां भोगैरमानयत् ॥४९॥ महादेवीभिरिष्टाभिरष्टाभिरवरोधने । प्रसाधिताभिराशाभिरिव ताभिरुपासितः ||५०|| विंदन् भोगफलं भूरि गोविंदः पुण्यवृक्षजं । संददज्जनतानंद ननंद पुरुपौरुषः ॥ ५१ ॥ कृतरणं प्रविभूय पुरः स्थितं रिपुगणं तृणवत्क्षणमात्रतः । वरवधूवररत्नमयत्नतः श्रयति भव्यजनो जिनधर्मकृत् ॥५२॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ जांबवत्यादिमहादेवीला भवर्णनो नाम चतुश्चत्वारिंशः सर्गः । पंचचत्वारिंशः सर्गः । अथ प्राप्ता महासत्त्वास्तदा द्वारवतीं पुरीं । भागिनेया दशार्हाणां प्रसिद्धाः पंच पांडवाः ||१|| युधिष्ठिरोऽर्जुनो ज्येष्ठो भीमसेनो महाबलः । नकुलः सहदेवश्च पंचैते पांडुनंदनाः ||२॥ मागधोत्रांतरेऽप्राक्षीत्प्रांजलिर्गणनायकं । अन्वये भगवन् ! कस्य पांडुः पांडवनंदनाः ||३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy