________________
हरिवंशपुराणं ।
५४१
चत्वारिंशः सर्गः ।
गौरी नामाभवत्तस्यां गौरी वर्णेन कन्यका । गौरीव रूपिणी विद्या गौरीतिरहितेव सा ॥ ३४ ॥ दूतप्रेषण पूर्व स मेरुः प्रेषयतिस्म तां । नैमित्तिकवचः स्मर्ता हरये हरिणक्षणा || ३५॥ परिणीय हरिगौरी मनोहरणसारिणीं । सुसीमासदनाभ्यर्णं प्रादात्प्रासादमुच्चकैः ||३६|| अरिष्टपुरनाथस्य सीरिणो मातुलस्य तु । राज्ञो हिरण्यनाभस्य श्रीकांतायां सुयोषिति ॥ ३७ ॥ पद्मावतीं समुत्पन्नां कन्यां पद्मामिव स्वयं । स्वयंवरगतां श्रुत्वा संप्राप्तौ रामकेशवौ ||३८|| सगौरव मिमौ दृष्टावना वृष्टिपुरस्सरौ । प्रीत्या हिरण्यनाभेन स्वजनस्नेहवर्धनौ || ३९ || पित्रा हिरण्यनाभस्य सत्रा प्राव्रजदग्रजः । पुरैव रेवतो नाम्ना महिम्ना यो वनश्रितः ||४०|| चतस्रस्तत्सुताः कन्या रेवती बंधुमत्यपि । सीता राजीवनेत्रा च ता दत्ताः सीरिणे पुरा ॥ ४१ ॥ स्वयंवरे प्रवृत्तेऽत्र हृत्वा पद्मावतीं हठात् । रणशौंडान्ममर्दाशु शौरिराहवदक्षिणः || ४२॥ परिणीय सभार्यौ तौ भ्रातरौ भ्रातृभिर्युतौ । द्वारिकामरमायातारं सात सुरोपमौ ||४३|| गौरी गृहसमीपे च पद्मावत्यै गृहं हरिः । प्रदाय प्रमदोपेतः प्रसादपरमोऽभवत् ||४४ ॥ नगर्यां पुष्कलावत्यां गांधारविषयेऽभवत् । भूभृदिंद्रगिरिस्तस्य मेरुसत्यभिधा प्रिया ||४५ || सुतो हिमगिरिस्तस्यां जातो हिमगिरिस्थिरः । गांधारी दुहिता चार्वी गंधर्वादिकला धिका ।। ४६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org