________________
हरिवंशपुराणं ।
५४०
चतुश्चत्वारिंशः सर्गः। गत्वा गत्याशु दूतस्तं प्रतिकूलमवेदयत् । लक्ष्मणां लक्षणोपेतां तत्कन्यां चापिशाङ्गिणः ॥२१॥ सत्वरं स ततो गत्वा हलिना सह सम्मदी । समुद्रं स्नातुमायातामद्राक्षीदायतेक्षणां ॥२२॥ द्रुमसेनं महावीर्य हत्वा सेनापतिं युधि । हत्वा चेतः स्वरूपेण रुपिणीमहरत्पुनः ॥२३॥ उपयम्य समानीय लक्ष्मणां लक्ष्मणप्रभुः । जांघवत्या गृहाभ्यर्णगृहे स रमतिस्म तां ॥२४॥ तस्या भ्राता महासेनः समागत्य नतो हरि। सन्मान्य मानिना मुक्तः सिंहलद्वीपमभ्यगात् ॥२५॥ राष्ट्रवर्धन इत्यासीत्सुराष्ट्राधिपतिर्नृपः । अजाखुरी पुरी चास्य विनया वनितोत्तमा ॥२६॥ तस्यां नमुचिनाम्नाभूत्तनयो नयविक्रमी । तनया च सुसीमाख्या सुसीमा वसुधा यथा ॥२७॥ युवराजः स नमुचिः क्षितिविश्रुतपौरुषः । राज्ञोवमन्यते मान्यानभिमानमहागिरिः ॥२८॥ नमुचिश्च सुसीमा च समुद्रं स्नातुमागतौ । हितेन हरये तेन नारदेन निवेदितौ ॥ २९ ॥ प्रभासतीर्थतीरस्थसैन्यं तं सीरिणा हरिः । गत्वा निहत्य हृत्वा तां कन्यां द्वारवतीमगात् ॥३०॥ लक्ष्मणाभवनाभ्यर्ण सौवर्ण भुवनोत्तमं । दत्वा सौधं यथारंस्त सीमंतिन्या सुसीमया ॥३१॥ राष्ट्रवर्धनराजोऽपि सुतायै सुपरिच्छदं । प्रजिघाय रथेमादिप्राभृतं प्रभवे यथा ॥३२॥ सिंधुदेशाधिपो मेरुरिक्ष्वाकुकूलवर्धनः । पुरे वीतभये चासीचंद्रवत्यस्य भामिनी ॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org