________________
हरिवंशपुराण।
चतुश्चत्वारिंशः सर्गः । इति नारदवाक्येन सस्नेहेन हरिस्तदा । पोद्दीपितः समुत्तस्थौ धृतेनेव हुताशनः ॥८॥ अनावृष्टिबलोपेतस्तं प्रदेशमितोऽचिरात् । प्रारब्धमजनक्रीडामपश्यत्कन्यका हरिः ॥९॥ सहसा कन्ययादर्शि हरिरिंदीवरद्युतिः । ततोऽगजेन तौ विद्धौ शरैः पंचभिरेकदा ॥१०॥ दोामालिंग्य तां गाढैः सुखामीलितलोचनां । आमीलितेक्षणो जडू इपितश्रीरतिद्वियं ॥११॥ सखीनामभवत्तुंगस्तत्र चाकंदनः स्वनः । समीपशिविरव्यापी कन्याहरणकारणः ॥१२॥ श्रुत्वा कन्यापिता क्रुद्धः खड्गोधतकरः खगेट । समुत्पत्य लघु प्राप्तः कनखेटकहस्तकः ॥१३॥ अनावृष्टिस्ततस्तस्य खेटको खड्पाणिकं । रणातिथ्यं स खे कृत्वा बबंध खचराधिपं ॥१४॥ आनीय नीतिविद्वीरो विष्णवे तमदर्शयत् । सूनुं जामातरि न्यस्य स ययौ तपसे वनं ॥१५॥ जांबवत्या विवाहेन परमानंदमाश्रितः । विश्वक्सेनयुतो विष्णुद्वारिकामगमनिजां ॥१६॥ प्रासादस्योपकंठे च रुक्मिण्या मुदितात्मनः। प्रासादं प्रददौ दिव्यं जांबवत्यै जनार्दनः ॥१७॥ सन्मान्य मातरं तस्या विसृज्य निजमास्पदं । अरीरदिमां भोगी भौगैर्भूतलदुर्लभैः ॥१८॥ परस्परगृहाजस्रगत्यागमनवर्धिता । रुक्मिणी जांबवत्योः प्राग्जाता प्रीतिरखंडिता ॥१९॥ श्लक्ष्णधीः श्लक्ष्णरोमाख्यो राजाभूत्सिहलेश्वरः । तद्वशीकृतये सौरिर्जातु दूतमजीगमत् ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org