________________
५३७
हरिवंशपुराणं।
त्रिचत्वारिंशः सर्गः । तस्यागमनवेलायामुद्याने तव रुक्मिणि । शिखी कूनिष्यतेऽत्युश्चैरकाले प्रियश्चनः ॥२३॥ शुष्का तद्तवेलायामुद्यानमणिवापिका । सुतागमनवेलायां पूर्यते सांबुजांबुना ।। २३४ ॥ तव शोकापनोदाय शोकापनुदसूचकः । अशोकः पादपोकाले मुंचत्यंकुरपल्लवान् ॥ २३५ ।। मूकीभूय स्थितास्तावद्यावत्प्रद्युम्नदूरता । प्रत्यासन्ने पुनका मूकभावं विमुंचति ।। २३६ ।। सुतागमनवेलैते निर्मितैर्लक्ष्यतां स्फुटैः । सीमंधरविभोर्वाक्यं मान्यथामस्त मानिता ॥ २३७ ॥ आकर्ण्य नारदीयं तदुक्मिणी वचनं हितं । श्रद्धाय प्रणतावोचदिति सा प्रश्नुतस्तनी ॥२३८॥ बंधुकार्यमिदं साधु वात्सल्योद्यतचेतसा । कृतं त्वयाद्य मे सद्यो भगवन्परदुष्करं ॥२३९॥ पुत्रशोकाग्निदग्धाहं निरालंबा त्वया मुने । दत्वा साधारिता धीर! नाथ! हस्तावलंबनं ॥२४०॥ प्रोक्तं सीमंधरेशन सर्वज्ञेनेह यद्यथा । तत्तथास्ति ममावश्यं जीवंत्याः पुत्रदर्शनं ॥ २४१॥ जीवामि जिनवाक्येन कठिनीभूतमानसा । ब्रज त्वमधुना स्वेच्छं पुनर्दर्शनमस्तु ते ॥ २४२ ।। सप्रणाममिति प्रोक्तो दत्ताशीर्नारदो ययौ । मुक्तशोका हरेरिच्छां पूरयंतीव सा स्थिता ॥२४३॥
१ 'मृतागमन ' इति ख पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org