________________
हरिवंशपुराणं ।
५३६
त्रिचत्वारिंशः सर्गः ।
मनुष्यभावमापन्नः स भूत्वाऽज्ञानतापसः । धूमकेतुरिवोद्दीप्तो धूमकेतुरभूत्सुरः ।। २२१ ॥ प्राक्स्त्रीवैरानुबंधेन सप्रबोधमुपेयुषा । शिशुं व्ययोजयन्मात्रा धिग्वैरं पापवर्धनं ॥ २२२ ॥ प्रद्युम्नो रक्षितोऽपायात्स्वपुण्यैः पूर्वसंचितैः । पुण्यानामेव सामर्थ्य मपायपरिरक्षणे ॥ २२३ ॥ सीमंधरजिनेंद्रेण तदानीमिति भाषितं । श्रुत्वा पद्मरथचक्री प्रणनाम प्रमोदवान् ॥ २२४ ॥ नारदोऽपि जिनं नत्वा प्रमोदेन वशीकृतः । समुत्पत्य मरुन्मार्गे मेघकूटं समाययौ ॥ २२५ ॥ कालसंवरमानंद्य पुत्रलाभोत्सवेन सः । देवीं कनकमालां च स्तुत्वा पुत्रवतीं मुहुः ॥ २२६ ॥ रुक्मिण्यास्तनुजं दृष्ट्वा कुमारशतसेवितं । गूढवृत्तप्रमोदेन रोमांचमभजत्परं ।। २२७ ॥ प्रणामेनार्चितस्तेषां दत्वाशिषमतिद्रुतं । वियदुत्पत्य संप्राप्तो द्वारिकां नारदो मुनिः ||२२८|| यथागतं यथादृष्टं यथाश्रुतमशेषतः । स प्रद्युम्नकथां कृत्वा यादवेभ्यो मुदं ददौ ।। २२९ ॥ देवीं च रुक्मिणीं दृष्टा विकासिमुखपंकजः । सीमंधर जिनेंद्रोक्तं प्रतिपाद्य पुनर्जगौ ॥ २३० ॥ दृष्ट रुक्मिणि ते पुत्रो मया क्रीडन् कुमारकः । खचरेशगृहे देवकुमार इव रूपवान् ॥ २३१ ॥ लब्धषोडशलाभोयं कृतप्रज्ञप्तिसंग्रहः । अमोघं षोडशे वर्षे समेष्यति सुतस्तव ॥ २३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org