________________
हरिवंशपुराणं ।
५३५
त्रिचत्वारिंशः सर्गः ।
उत्तुंग गिरिशृंगेषु तयोरातापनस्थयोः । स्वेदस्य विदवः पेतुर्विलीनस्येव कर्मणः ॥ २०८ ॥ वर्षासु जीवरक्षार्थं वृक्षमूलस्थयोर्वपुः । युधीव शरधाराभिर्न भिन्नं धृतिकंटकं ॥ २०९ ॥ यामिनीषु मनीषिभ्यां हैमनीषु हिमानिलाः । सेहिरे प्रतिमास्थाभ्यां देहच्छायाब्जनीप्लुषः | २१० | अनुप्रेक्षाभिरुद्धाभिर्धर्मचारित्रशुद्धिभिः । चक्रतुः संवरं धीरौ परीषहजयेन च ॥ २११ ॥ स्वाध्यायध्यानयोगस्थो वैय्यावृत्त्य क्रियोद्यतौ । रत्नत्रय विशुद्धया तौ दृष्टौ दृष्टांततां गतौ ॥ २१२ ॥ बहुवर्षसहस्राणि संचितोरुतपोधनौ । मधुकैटभयोगशिौ शल्यदोषविवर्जितौ ॥ २१३ ॥ अंत सम्मेदमारुह्य प्रायोपगमनेन तौ । मासक्षपणयोगेन समाराध्योज्झितांगकौ ॥ २१४ ॥ आरणाच्युतकल्पे ताविंद्रं सामानिकौ प्रभू | देवीदेवसहस्राणां यातौ प्रत्येकमीश्वरौ ॥ २१५ ॥ द्वाविंशतिपयोराशिप्रमाणपरमायुषौ । बुभुजाते सुखं सम्यक् सम्यग्दर्शन भावितौ ।। २१६ ॥ अवतीर्य मधुर्जातो रुक्मिणीकुक्षिभूमणिः । कृष्णस्य भारते पुत्रो नाम्ना प्रद्युम्न इत्यसौ ॥ २१७॥ कैटभोऽपि दिवयुत्वा भ्रातास्यैव भविष्यति । जांबवत्यां महादेव्यां शत्रः कृष्णनिभद्युतिः २१८ जन्मांतरमहाप्रीत्या परस्परहितोद्यतौ । धीरौ चरमदेहौ तौ शबप्रन्नसुंदरौ ॥ २१९ ॥ कांताविरहसंतापादार्तध्यानपरायणः । भ्रांत्वा संसारकांतारं चिरं वटपुरप्रभुः ॥ २२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org