________________
हरिवंशपुराण
५३४
त्रिचत्वारिंशः सर्गः सुवशस्तु मनोहस्ती तपोमयरणक्षितौ । पापसेनां निगृह्णाति साध्वाधोरणनोदितः || १९६ ॥ शब्दरूपरसस्पर्शगंधसस्याभिलाषिणः । हृषीकमृगयूथस्य मनोमारुतहारिणः ।। १९७ ।। निरूप्य प्रसभं धैर्य दृढवागुरया चितं । चिरसंचितपापस्य करोमि तपसा क्षयं ॥ १९८ ॥ इत्याभाष्य मनोवेगं निगृह्य विदधे मधुः । धियं बोधपयोधौ तां तापस्ये तापशांतये ॥ १९९ ॥ आगत्य च तदाऽयोध्यां नाम्ना विमलवाहनः । मुनिर्मुनिसहस्रेण सहस्राम्रवनेऽवसत् ||२००|| मधुः सकैटभः ः श्रुत्वा तमयात्सबधूजनः । प्रपूज्य विधिना धर्म शुश्राव च विशेषतः ।। २०१ ॥ भोगसंसारशारीर पुरवैराग्यसंगतः । प्रवव्राज सह भ्रात्रा क्षत्रियैर्बहुभिर्मधुः || २०२ ॥ विशुद्धान्वय संभूताः शतशोऽथ सहस्रशः । प्राव्रजन् व्रतशीलाढ्या चंद्राभाद्या नृपस्त्रियः || २०३ || माधवोऽपि निजं राज्यं ररक्ष कुलवर्धनः । वर्धमानः स्वशरीरेण पौरुषेण जयेन च ॥ २०४ ॥ चक्रतुस्तौ तपो घोरं राजानौ मधुकैटभौ । व्रतगुप्तिसमित्याढ्यौ निर्ग्रथौ ग्रंथवर्जितौ ॥ २०५ ॥ एक एव तयोरासीदंगोपांगपरिग्रहः । न बाह्याभ्यंतरासंगादंगोपांगपरिग्रहः ॥ २०६॥ षष्ठाष्टमादिषण्मासपर्यंतो पोषितावृषी । निःशेषैरागमोक्तैस्तौ चक्रतुः कर्मनिर्जरां ।। २०७ ।।
:
१ स्ववश इत्यपि ।
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org