________________
हरिवंशपुरा।
५३३
त्रिचत्वारिंशः सर्गः। तद्वचसा स म्लानो हि हिमानीहतपद्मवत् । चिंतयेदनया तथ्यं ममोक्तं हितमिच्छया ॥१८३॥ परस्त्रीहरणं सत्यं दुर्गतेःखकारणं । ज्ञात्वा विरागिणं कांत ऊचे सापि विरागिणी ॥ १८४ ॥ किं भोगैरीदृशैः कृत्यं परस्त्रीविषयैःप्रभो। किंपाकसदृशैः स्वामिन् ! दुःखदैः प्रीणकैरपि ॥१८॥ भोगास्ते स्वपरयोर्ये नोपतापस्य हेतवः । सम्मताः साधुलोकस्य नेतरे विषयात्मकाः॥१८६॥ इति प्रबोध्यमानोऽयं मधुश्चंद्राभया शनैः । मुमोच सुदृढीभूतं मोहकादंबरीमदं ॥ १८७ ॥ जगाद च स तां देवी प्रसन्नमतिरादरात् । साधु ! साधु! त्वया साध्वि! प्रतिपादितमत्र मे ॥१८॥ न युक्तमीदृशं कर्म पुंसामाचरितुं सतां । परपीडाकरं वाढं परत्रेह च पापकृत् ।। १८९॥ मादृक्षोऽपि यदीक्षं कर्म लोकविर्हितं । करोति तत्र किं वाच्यमव्युत्पन्नः पृथग्जनः ॥१९०॥ स्वकलत्रेऽपि यत्राऽयं रागोऽत्यर्थ निषेवतः । कर्मबंधस्य हेतुः स्यात् किं पुनः परयोषिति॥१९१॥ ज्ञानांकुशनिरुद्धोऽपि मनोमत्तमहाद्विपः । उत्पथेन नवत्युग्रः किमत्र कुरुते बुधः ॥ १९२ ॥ निरुद्धय निशितैर्दैडरनंकुशमनोगजं । प्रवर्सयंति ये मार्गे केचिदेवात्र ते भटाः ॥ १९३ ॥ दंडैमनोगजो मत्तो रतिवासितया हृतः । यावन्न युज्यते तावत् कुतस्तस्य मदक्षितिः ॥ १९४ ॥ प्रयत्नेन मनोहस्ती यावनात्र वशीकृतः । तावदारोहकस्यापि भयायैव न शांतये ॥ १९५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org