________________
हरिवंशपुराण।
५३२
त्रिचत्वारिंशः सर्गः। इति संचित्य रागांधः स तस्या हरणे मनः । न्यधत्त मधुरुवीशो मतिमानपि मान्यपि ॥१७०॥ ततो भीमकमुद्वृत्तं वशीकृत्य कृती मधुः । अयोध्यापुरमागत्य चंद्रामाहृतमानसः ॥१७१॥ सांतःपुरान् स्वसामंतान स्वपुरं स्वपुरस्थितान् । सत्त्वरं सत्त्वसंपन्नः समाहूय यथायथं ॥१७२॥ सर्वान् संपूज्य संपूज्य विचित्रांबरभूषणैः । विससर्ज निजावासान् प्रसादाह्लादिताननान् ।।१७३॥ अतिसन्मान्य सस्त्रीकं तथा वटपुरेश्वरं । अजीगमदतिप्रीतं प्रीतिपूर्व निजास्पदं ॥१७४॥ चंद्रमायास्तु यद् योग्यमद्याप्याभरणं वरं । न सज्जमिति तावत्सा तेन रुद्ध्वा निजीकृता ॥१७५॥ प्रभुत्वमखिलस्त्रीणां महादेवीपदेन सः । दत्त्वा कामान् यथाकामं न्यषेवत तया मधुः ॥१७६।। तस्याः कौमारभ" तु वियोगानलदीपितः । उन्मत्ततां परां प्राप्तः पर्यटन् क्षितिमाकुलः।१७७॥ चंद्राभालापवात्तिः पुररथ्यासु पयटन् । धूसरो वीक्षितो जातु प्रासादस्थितया तया ॥१७८॥ यातकारुण्ययाऽवाचि मधुराजस्ततोऽनया । नाथ ! पूर्वपतिं पश्य भ्रमंतं मे प्रलापिन ॥१७९॥ तस्मिन्नवसरे चंडैस्तैः कश्चित्पारदारिकः । गृहीत्वा दर्शितस्तस्मै नृपाय न्यायवेदिने ।।१८०॥ किमिह देवदंडोऽस्य तेनोक्तं सापराधवान् । अत्यंतपापभागेष तस्मादस्य विधीयते ॥१८॥ हस्तपादभिरच्छेदं देहदंडं भयास्पदं । देव्या चोकं तदा देव ! अयं दोषो न कि तब ॥१८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org