________________
हरिवंशपुराण।
५३१
त्रिचत्वारिंशः सर्गः। अनुष्ठाय चिरं श्रेष्ठं श्रावकव्रतमुत्तमं । संलिस्य प्रातरौ जातौ सौधर्मे सुरसत्तमौ ॥१५८॥ व्युत्वा पुनरयोध्यायां हेमनाभस्य भूपतेः । धरावत्यां सुतौ भूतौ मधुकैटभनामकौ ॥१५९॥ अभिाषच्य मधुं राज्ये यौवराज्ये च कैटभं । हेमनाभो महाभागो व्रत जैनेंद्रमग्रहीत् ॥१६॥ मधुकैटभवीरौ तावेकवीरौ धरातले । भूतावद्भुततेजस्को सूर्याचंद्रमसाविव ॥१६॥ अक्षुद्रः क्षुद्रसामंतैरंधकार इवैतयोः । गिरिदुर्गमुपाश्रित्य भीमकः प्रत्यवस्थितः ॥१६२॥ तद्वशीकरणार्थ तौ चेलतुर्मधुकैटभौ । प्राप्तौ वटपुरं यत्र वीरसेनोऽवविष्ठते ॥१६३॥ अभ्युद्गतेन तेनासौ प्रीतेन मधुरादरात् । सांतःपुरेण वीरेण स्वामिभक्त्यातिमानितः ॥१६॥ चंद्राभा चंद्रिकेवाऽस्य मानिनी रूपमानिनी । अहरन्मधुराजस्य मनो मधुरभाषिणी ॥१६५॥ शस्त्रशास्त्रकठोराऽपि चंद्राभादर्शनान्मधोः । आर्द्रभावमगाद बुद्धिश्चंद्रकांतशिला यथा ॥१६६॥ राज्यं यदनया युक्तं रूपसौभाग्ययुक्तया । सुखाय तदहं मन्ये वियुक्तं तु विषोपमं ॥१६७॥ चंद्राभयोपगूढस्य महोदयमहीभृतः । संपूर्णस्येव चंद्रस्य कलंकोऽप्यतिशोभते ॥१६८॥ चंद्राभासंगसंजातविकासस्य सुगंधितां । कुमुदाकरराजस्य पंकगंधो न बाधते ॥१६९॥
१ रिपु इत्यपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org