________________
त्रिचत्वारिंशः सर्ग |
हरिवंशपुराणं ।
५३०
मुनिमासाद्य तौ धर्म श्रुत्वा द्विविधमध्यतः । अणुव्रतानि संगृह्य श्रावकत्वमुपागतौ ॥ १४५ ॥ अनुपालय चिरं धर्म सम्यग्दर्शनभावितौ । कालेन कालधर्मेण जातौ सौधर्मवासिनी ॥ १४६ ॥ अश्रद्धाय मतं जैनं पितरौ तु मृतौ तयोः । यातौ कुयोनिपांथौ तौ यतो मिथ्यात्वमोहितौ ॥ १४७॥ देवौ देवसुखं भुक्त्वा च्युत्वाऽयोध्यानिवासिनः । जातौ समुद्रदत्तस्य धारिण्यां श्रेष्ठिनः सुतौ ॥ १४८ ॥ पूर्णभद्रस्तयोर्ज्येष्ठो मणिभद्रोऽनुजोऽभवत् । अविराधितसम्यक्त्वौ तौ च शासनवत्सलौ ॥ १४९ ॥ गुरोर्महेंद्रसेनाच्च धर्मं श्रुत्वा पिताऽनयोः । तत्पुरेश्वरराजश्च भव्याश्चान्ये प्रवव्रजुः || १५० || अन्यदा मुनिपूजार्थं रथेन प्रस्थितौ पुरः । चांडालं सारमेयीं च तौ दृष्ट्रा स्नेहमागतौ ॥ १५१ ॥ वंदित्वा तद्गुरुं भक्त्या पृच्छतःस्म सविस्मयौ । शुनीचांडाल योः स्नेहः स्वामिन्नौ किमभूदिति । १५२। गुरुराहावधिज्ञानज्ञातलोकत्रयस्थितिः । विप्रजन्मनि यौ तौ वां पितरौ ताविमौ यतः || १५३ || निशम्येति गुरुं नत्वा गत्वा तौ धर्ममूचतुः । भवांतरकथाप्रायमुपशांतौ ततस्तकौ ॥ १५४॥ निर्वेदी दीनतां त्यक्त्वा त्यक्त्वाहारचतुर्विधं । मासेन श्वपचो मृत्वा भूत्वा नंदीश्वरोऽमरः ।। १५५ ।। सारमेयीं पुरेऽत्रैव राजपुत्रित्वमागतां । अबोधयदसावेत्य स्वयंवरगतां सतीं ॥१५६॥ ज्ञातसंसारनिःसारा सम्यक्त्व परिभाविता । सितैकवसना कन्या प्राब्रजन्नवयौवना ॥ १५७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org