________________
हरिवंशपुराण ।
५२९
त्रिचत्वारिंशः सर्गः ।
अनादौ भवकांतारे महामोहांधकारिते । भ्रमतो मे मुने ! जातो बंधुस्त्वं मार्गदर्शनः || १३३॥ प्रसीद भगवन् ! दीक्षां देहि दैगंबरीमिति । प्रासाद्य गुरुमासाद्य जग्राहानुमतां सतां ॥ १३४|| चरितं तस्य विप्रस्य श्रुत्वा दृष्ट्वा च तादृशं । श्रामण्यं केचिदापन्नाः केचित् श्रावकतां परां १३५ तावग्निवायुभूती तु विलक्षौ लोकगर्हितौ । स्वनिकेतं पुनर्यातौ पितृभ्यामपि निंदितौ ॥१३६॥ कायोत्सर्गस्थितं रात्रौ मुनिमेकांत चिनौ । जिघांसौ खड़हस्तौ तौ यक्षेण स्तंभितौ स्थितौ ॥ १३७॥ प्रभाते च जनो दृष्टा तौ यतेः पार्श्वयोः स्थितौ । निनिंद निंदिताचारौ तावेतौ पातकाविति ॥ १३८ ॥ तावचिंतयतां साधोः प्रभावोऽयमहो महान् । आवामयत्नतो येन स्तंभितौ स्तंभतां गतौ ॥ १३९ ॥ कथंचिद् यदि मोक्षः स्यादस्माकं कृच्छ्रतोऽमुतः । जिनधर्म प्रपत्स्यामो दृष्टसामर्थ्यमित्यपि ॥ १४० ॥ तावत्तद्व्यसनं श्रुत्वा पितरौ शीघ्रमागतौ । पादलग्नौ मुनिं तं तौ प्रसादयितुमुद्यतौ ॥ १४१ ॥ करुणावानसौ योगी योगं संहृत्य सुस्थितः । क्षेत्रपालकृतं ज्ञात्वा तमाह विनयस्थितं ॥ १४२ ॥ क्षम्यतां यक्ष ! दोषोऽयमनयोरनयोद्भवः । कर्मप्रेरितयोः प्रायः कुरु कारुण्यमंगिनोः ॥ १४३ ॥ इत्यासाद्य मुनेराज्ञां राज्ञामिव नियोगतः । यथाऽऽज्ञापयसीत्युक्त्वा विससर्ज स तौ तदा ॥ १४४ ॥ १ तूर्ण इत्यपि ।
Br
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org