________________
हरिवंशपुराणं ।
त्रिचत्वारिंशः सर्ग' |
कालं कृत्वा युवां जातौ जातिगौरव गर्वितौ । अग्निभूतिर्मरुभूतिः सोमदेवस्य देहजौ ॥ १२०॥ पापपाकेन दौर्गत्यं सौगत्यं पुण्यपाकतः । जीवानां जायते तत्र जातिगर्वेण किं वृथा ॥ १२१ ॥ प्राप्तः पामरको दृष्ट्वा क्रोष्टारौ नष्टजीवितौ । दृती कृत्वा कृती गेहे तिष्ठतोऽद्यापि तद्हती ।। १२२ ॥ सोऽपि मृत्वा सुतस्यैव सुतो भूत्वातिमानवान् । जातिस्मरः स्मरच्छायो मृषा मूक इव स्थितः ॥ १२३ ॥ स एष बंधुमध्यस्थो मामतीव विलोकते । इत्युक्त्वाऽऽहूय तं मूकं सात्यकिः सत्यवाग् जगौ ॥ १२४ ॥ सत्वं पामरको विप्रः प्राप्तस्तोकस्य तोकतां । शोकं च सूकभावं च मुंच मुंच वचोऽमृतं ।। १२५ ।। जायतेऽत्र नटस्येव संसारे स्वामिभूत्ययोः । पितृपुत्रकयोर्मातृभार्ययोश्च विपर्ययः ॥ १२६ ॥ घटीयंत्रघटीजाले जटिले कुटिले भवे । उत्तराधर्यमायांति जंतवः सततभ्रमाः || १२७|| इति विज्ञाय निस्सारं घोरं संसारसागरं । कुरु पुत्र ! दयामूलं व्रताख्यं सारसंग्रहं ॥ १२८॥ इति साक्षात्कृते तन प्रत्यये यतिना द्विजः । पपात पादयोस्तस्य प्रदक्षिणपुरःसरं ॥ १२९ ॥ आनंदास्रपरीताक्षः पुनरुत्थाय विस्मयी | जगाद गद्गदालापः कृतांजलिपुटालिकः ॥ १३० ॥ अहो सर्वज्ञकल्पस्त्वं वस्तुनस्तत्त्वमीश्वरः । अत्रत्यं पश्यसि स्पृष्टं जगत्त्रितयगोचरं ॥ १३१ ॥ उन्मीलितं मनोनेत्रमज्ञानपटलाविलं । त्वया नाथ ! ममेहाद्य ज्ञानांजनशलाकया ।। १३२||
Jain Education International
५२८
For Private & Personal Use Only
www.jainelibrary.org