________________
५२७
हरिवंशपुराणं।
त्रिचत्वारिंशः सर्गः। अस्मत्परः परः कोऽपि वंदनीयोऽस्ति भूतले । पश्यामस्तस्य महात्म्यमिति तौ मानिनौ गतौ।१०७॥ प्राप्तावपश्यतां विप्राववधिज्ञानचक्षुषं । जनसागरमध्यस्थं साध्विद्रं धर्मवादिनं ॥१०८॥ महिषाभ्यामिव क्षोभो माभूदाभ्यामिहाधुना । सद्धर्मश्रवणस्येति सुश्रूषुहितबुद्धिना ॥१०९॥ साधुनाऽवधिनेत्रेण दुरात्सात्यकिना तको । इत आगम्यतां विप्रावित्याहूतौ पुरःस्थितौ ॥११॥ ततो लोकस्तको दृष्ट्वा सावष्टंभौ यतेः पुरः । आययुश्च पयःपूरैः प्रावृषीव महानदः ॥१११॥ अतः प्राह यतिः प्राप्तौ कुतः पंडितमानिनौ । पाहतुस्तौ न किं ज्ञातौ शालिग्रामादिहागतौ॥११॥ सात्यकिः प्राह सत्यं भोः शालिग्रामादुपागतौ । किंत्वनाद्यंतसंसारे संसरंतौ कुतो गतेः ॥११३।। अन्यस्यापि च दुर्बोधमेतदित्युदिते यतिः । नैवमित्यगदीद् विप्रो ! श्रूयतां कथयाम्यहं ॥१४॥ ग्रामस्यास्यैव सीमांते शृगालौ कर्मनिर्मितौ । युवां परस्परप्रीती जातौ जन्मन्यनंतरे ॥११५।। आसीत्प्रवरको नाम्ना ग्रामेऽत्रैव कृषीवलः । विप्रः प्रकृष्य स क्षेत्रं महावोनिलार्दितः ॥११६॥ मुक्त्वोपकरणं क्षेत्रे वटवृक्षतलेऽखिलं । कंपमानशरीरोऽगात् क्षुद्रोगातिवशीकृतः ॥११७॥ सप्ताहोरात्रवर्षेण प्राणिसंहारकारिणा । आद्रोपकरणं ताभ्यां तिर्यग्भ्यां भक्षितं क्षुधा ॥११८॥ जातोदरमहाशूलौ प्रसह्यासह्यवेदनां । अकामनिर्जरायोगादर्जितेनोर्जितायुषा ॥११९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org