________________
हरिवंशपुराणं ।
५२६
त्रिचत्वारिंशः सर्गः ।
ततः प्राह जिनस्तचं जंबूद्वीपस्य भारते । नारदो वासुदेवस्य नवमस्य हितोद्यतः ॥ ९४ ॥ किमर्थमागतो भर्त्तरिहायमिति पृच्छति । मूलतः कथितं सर्वं चक्रिणे धर्मचक्रिणा ||१५|| प्रद्युम्न इति नाम्नाऽसौ पितृभ्यां योक्ष्यते पुनः । संप्राप्ते षोडशे वर्षे प्राप्तषोडशलाभकः ॥ ९६॥ स प्रज्ञप्तिमहाविद्या प्रद्योतितपराक्रमः । देवानामपि सर्वेषामजय्योऽत्र भविष्यति ॥ ९७ ॥ कीदृशं चरितं तस्य हृतो वा केन हेतुना । इति पृष्टो जिनोऽभाणी स्मै नारदसन्निधौ ॥९८॥ इह भारतवर्षेऽभूद्विषये मगधाभिधे । शालिग्रामेऽग्रजन्मासौ सोमदेव इति श्रुतः ॥ ९९ ॥ अग्निला ब्राह्मणी तस्य स्वाहेवाने: सुखावहा । अग्निभूतिरभूत्तस्या वायुभूतिश्च नंदनः || १०० || बभूवतुरिमौ भूमौ वेदवेदार्थकोविदौ । छादितान्यद्विजच्छायौ यथा शुक्रबृहस्पती ॥ १०१ ॥ वेदार्थभावनाजातजातिवादातिगर्वितौ । वाचाटौ चाटुभिः पित्रोर्लालितौ भोगतत्परौ ॥ १०२॥ द्विरष्टवर्षसु स्त्रीषु स्वर्गबुद्धिं प्रकृत्य तौ । जातावत्यंतविद्विष्टौ परलोककथां प्रति ॥ १०३॥ अन्यदाऽऽगत्य संधेन महता नंदिवर्द्धनः । तत्रोद्याने गुरुस्तस्थौ श्रुतसागरपारगः ॥ १०४ ॥ तद्वंदनार्थमद्वंद्वं चातुर्वर्ण्यमहाजनं । निर्गच्छंतं समालोक्य कारणं तावपृच्छतां ॥ १०५ ॥ निवेदितं ततस्ताभ्यां द्विजेनैकेन साधुना । महच्छ्रमणसंघस्य वंदनार्थमिति स्फुटं ॥ १०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org