________________
हरिवंशपुराणं।
५२५
त्रिचत्वारिंशः सर्गः। सा तं पितृसमं दृष्ट्वा रुरोदोन्मुक्तकंठकं । सज्जनोपनिधौ शोकः पुराणोऽपि नवायते ॥८२।। तस्याः शोकसमुद्रं स प्रक्षिपन्निव दक्षिणः । आह्लादयन्मनोऽवादीदिति नारदसन्मुनिः ॥८३॥ त्यज रुक्मिणि ! शोकं त्वं कचिज्जीवति ते सुतं । कथंचिदपि नीतोऽपि केनचित्पूर्ववैरिणा ॥८४॥ दीर्घजीवितसद्भावं ननु तस्य महात्मनः । निवेदयति संभूतिर्वासुदेवात् त्वयि ध्रुवं ॥८५॥ संयोगाश्च वियोगाश्च प्राणिनां प्राणवत्सले । वत्से भवंति संसारे सुखदुःखविधायिनः ॥८६॥ तत्र कर्मवशज्ञानां ज्ञानोन्मीलितधीदृशां । प्रभवंति न ते वत्से यदूनामिव शत्रवः ॥८७॥ जिनशासनतत्त्वज्ञा संसतिस्थितिवेदिनी । मा भूः शोकवशा वार्ता त्वत्सुतस्य लभे लघु ॥८॥ इति तां नारदस्तन्वीमनुशिष्य वचोऽमृतैः । प्रयातो वियदुत्पत्य सीमंधरजिनांतिकं ॥८९॥ विषयेषु पुष्कलावत्यां नृसुरासुरसेवितं । नगर्या पुंडरीकिण्यामहतं स तमैक्षत ॥९०॥ कृतांजलिपुटस्तोत्रपवित्रीकृतवाग्मुखः । प्रणम्य जिनमासीनः स नरेंद्रसभांतरे ॥९१।। तत्र पद्मरथश्चक्री पंचचापशतोच्छ्रतिः । दशचापोच्छृतिं पश्यन्नारदं नरशंसितं ॥९२॥ कौतुकात्करपद्माभ्यामास्थायापृच्छदीश्वरं । माकृतिरयं नाथ ! कीटः किमभिधानकः ॥१३॥
१क्षपयन्नित्यपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org