________________
हरिवंशपुराणं।
५२४
त्रिचत्वारिंशः सर्गः। अन्यथा कथमुत्खातखड़धारावभासिनः । न्हियेत वासुदेवस्य ममापि तनयः परैः ॥ ६९ ॥ इत्यादि बहुवादी स रुक्मिणीमाह मा प्रिये । शोकिनी भूरिहात्यर्थ धीरे ! धारय धीरतां॥७०॥ नाल्पः कल्पच्युतः पुत्रो जातस्तव ममापि यः । भवितव्यमिहैतेन भुवने भोगभागिना ॥७१॥ गवेषयामि तल्लोकं तं लोकनयनोत्सवं । सूक्ष्मदृष्टिरिवोविंबं प्रतिपच्चंद्रमंबरे ।। ७२ ॥ शांत्वयित्वाश्रुसंधोतकपोलयुगलां प्रियां। माधवोऽन्वेषणे सूनोरुपायपरमोऽभवत् ॥७३॥ काले तत्र हरिं प्राप्तो नारदोऽनारतोद्यमः । श्रुतवार्तश्च शोकेन क्षणं निश्चलतां गतः ॥७४|| आननानि यदूनां स पश्यतिस्म सविस्मयः ! क्लांतानि हिमदग्धानि पद्मानीव समंततः॥७५॥ ततो निरस्तमन्युश्च प्रत्युवाच जनार्दनं । वीर ! शोककलिं मुंच सुतवार्तामहं लभे ॥७६।। योऽतिमुक्तक इत्यासीदवधिज्ञानवान् मुनिः । स केवलमयं नेत्रं लब्ध्वा निर्वाणमाश्रितः ॥७७॥ योऽपि नेमिकुमारोऽत्र ज्ञानत्रयविलोचनः । जानन्नपि न स ब्रूयान्न विद्मो केन हेतुना ॥७८॥ अतः पूर्वविदेहेषु गत्वा सीमंधरं जिनं । संपच्छच पुत्रवाता ते प्रापयामीति नारदः ॥७९॥ दत्तोत्तरो विनिर्गत्य रुक्मिणीभवनं गतः । शोकपालेयनिर्दग्धं दृष्ट्वा तन्मुखपंकजं ।।८०॥ शोकवानपि चित्तेन वहिधैर्यमुपाश्रितः । अभ्युत्थायार्चितस्तस्या न्यषीदनिकदासने ॥८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org