________________
५२३
हरिवंशपुराणं ।
त्रिचत्वारिंशः सर्गः। तैरज्ञातकुलं दृप्तैस्ताड्यमानं शिरस्यमुं । न शक्नोमि तदा दृष्टुं तन्मे वरमपुत्रता ॥ ५६ ॥ इत्युक्ते शांतायत्वा तां गृहीत्वा कर्णपत्रकं । युवराजोऽयमित्युक्त्वा पट्टमस्य बबंध सः ॥५७॥ ततो जग्राह तुष्टा सा तनयं नयशालिनी । सपुत्रौ तौ प्रविष्टौ च मेघकूटपुरं पुरं ॥ ५८ ॥ गूढगी महादेवी प्रसूता तनयं शुभं । इति वार्ता पुरे कृत्वा कोविदः कालसंबरः ।। ५९ ॥ नृत्यद्विद्याधरीद्वंदं सिंजसिजीरबंधुरं । तस्य पुण्यनिधानस्य जन्मोत्सवमकारयत् ।। ६०॥ प्रकृष्टद्युम्नधामत्वात् प्रद्युम्न इति संज्ञितः । कुमारो वर्द्धते तत्र कुमारशतसेवितः ॥ ६१॥ इतश्च रुक्मिणी सूनुं विबुद्धा नेक्षते यदा । वृद्धधात्रीभिरित्युच्चैः सह दृष्टुं ततस्तदा ॥ ६२ ॥ विललाप च हा पुत्र ! हृतः केनाऽपि वैरिणा । विधिना निधिमादर्य नेत्रं मेऽपहृतं कथं ॥६३॥ वियोजिता मया नूनमपत्येन भवांतरे । काचन स्त्री न हीदृशं भवेत्फलमहेतुकं ॥६४ ॥ विलापमिति कुर्वत्यां रुक्मिण्यां करुणावहं । रोदनध्वनिरुत्तस्थौ परिवारस्य मांसलः ॥६५॥ ततो विदितवृत्तांतो वासुदेवः सबांधवः । संप्राप्य सहसा तत्र कलत्रैः सकलत्रिभिः ॥६६॥ आक्रंदनस्वनप्राप्तसंक्रंदनपुरःसरः । निनिंद भुजवीर्य स्वं प्रमादं च सनंदकः ॥६७॥ अवदच वचोदक्षो दैवपौरुषयोः परं । दैवमेव परं लोके धिक् पौरुषमकारणं ॥ ६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org