________________
५२२
हरिवंशपुराणं ।
त्रिचत्वारिंशः सर्गः। शिशुमुद्धृत्य बाहुभ्यां महीध्रमिव गौरवात् । नभः समुद्ययौ नीलो नीलबुद्धिमहासुरः ॥४३॥ हस्ताभ्यां किमु मृगामि पूर्ववैरिणमेनकं । खगेभ्यो नखनिभिन्न खे वलिं विकिरामि किं ॥४४॥ नक्रचक्रमहारौद्रे मकरग्राहसंकुले । पातयामि समुद्रे किं क्षुद्रं मे द्रोहिणं रिपुं ॥ ४५ ॥ अथवा मांसपिंडेन मारितेनामुनाऽत्र किं । त्यक्तश्चापदरक्षस्तु स्वयमेव मरिष्यति ॥ ४६ ॥ इति संचिंत्य पुण्येन शिशोरेव महासुरः । पश्यन्नवततारातो विदूरखदिराटवीं ॥ ४७॥ अधस्तक्षशिलायास्तं निधाया कमाशु सः । धूमकेतुरिवादृश्यो धूमकेतुरभूत्ततः ।। ४८॥ तदनंतरमेवाऽत्र मेघकूटपुराधिपः । कालसंवर इत्याख्यः सार्द्ध कनकमालया ॥ ४९॥ प्राप्तो भौमविहारेण विमानेन वियच्चिरः । शिशोस्तस्य प्रभावेण खंडिताऽस्य गतिस्तदा ॥५०॥ किमेतदित्यसौ ध्यात्वा परं विस्मयमागतः। अवतीर्य शिलां पृथ्वीमुच्छसंती व्यलोकत ॥५१॥ समुत्क्षिप्य शिलां स्वैरमपसार्य स दृष्टवान् । अक्षतांगमनंगाभमर्भकं कनकप्रभं ॥ ५२ ॥ गृहीत्वा करुणोपेतः प्रियायै दातुमुद्यतः । तनयस्तेऽनपत्याया गृहाणेति प्रियंवदः ॥ ५३ ॥ प्रसार्य करयुग्मं सा पुनः संकोच्य कोविदा । अनिच्छंतीव संतस्थे खेचरी दीघदर्शिनी ॥५४॥ प्रिये ! किमिदमित्युक्त सा जगौ तव सूनवः । महाभिजनसंपन्नाः संति पंचशतानि ते ॥५५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org