________________
हरिवंशपुराणं ।
५२१
त्रिचत्वारिंशः सर्गः । विबुद्धा च समाचख्यौ पत्ये स्वप्नमसौ जगौ । सुपुत्रस्ते वियच्चारी भविताऽत्र महानिति ॥ ३० ॥ वचः पत्युरसौ श्रुत्वा विकाशमगमद् वधूः । तेजसांऽशुमतः श्लिष्टा पद्मिनीव दिनानने ।। ३१ ॥ अवतीर्याऽच्युतेंद्रस्तु रुक्मिणीगर्भमाश्रितः । पूरयन् परमानंदमुपेंद्रस्य जनस्य च ॥ ३२ ॥ तत्काले सत्यभामाऽपि शिरःस्नातवती सती । अधत्त स्वयुतं गर्भे सुतं सुस्वप्न पूर्वकं ||३३|| वर्धमानौ च तो गर्भी वर्धमानयशोलतौ । वर्द्धमानां मुदं मात्रोः पितुश्वाकुरुतां परां ॥ ३४ ॥ पूर्णप्रसवमासेऽत्र प्रसूता रुक्मिणी सुतं । नरलक्षणसंपूर्ण सत्याऽपि युगपन्निशि ।। ३५ ।। प्रहिताश्च हितास्ताभ्यां युगपन्निशि वर्द्धकाः । शिरोंते सत्यया विष्णोः पादांते तस्थुरन्यया ॥३६॥ प्रबुद्धश्च हरिर्दृष्टयै रुक्मिणीपुत्रजन्मना । आनंदितो ददौ तेभ्यः स्वांगस्पृष्टं विभूषणं ।। ३७।। परावृत्य पुनः पश्यन् सत्यभामाजनैः स्तुतः । पुत्रोत्पत्त्या ददौ तुष्टस्तेभ्योऽप्यर्थं जनार्दनः॥ ३८॥ तस्यामेव च वेलायां बलवान् नभसा व्रजन् । धूमकेतुर्विमानस्थो धूमकेतुरिवासुरः ।। ३९ ।। स्तंभितेन विमानेन कथंचिदपि विस्मितः । अधोऽवलोकमानोऽसौ विभंगज्ञानलोचनः ।। ४० ।। रुक्मिण्याः सुतमालोक्य शेषाऽरुणनिरीक्षणः । दर्शनेंधन सद्दीप्तपूर्ववैरविभावसुः ॥ ४१ ॥ महारक्षाधिकारस्य परिवारजनस्य सः । रुक्मिण्याच महानिद्रां निपात्यापत्यपातकः ।। ४२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org