________________
५२०
हरिवंशपुराणं।
त्रिचत्वारिंशः सर्गः । कृतकृष्णवचोभामां रुक्मिणी विनयाचतः । ननाम कुलजातानां विनयः सहजो मतः ॥१७॥ विहृत्य चिरमुद्यानं लतामंडपमंडितं । ताभ्यामधोक्षजो यातो निवृत्तो भवनं निजं ॥१८॥ ताभ्यामेकदिनौपम्यमनेकेषु दिनेष्वतः । तस्य यात्सु सुखांभोधिवर्तिनः शौर्यशालिनः ॥१९॥ दुर्योधनोऽन्यदा दूतं हरये प्रियपूर्वकं । प्रजिघाय घनस्नेहः स हास्तिनपुराधिपः ॥२०॥ यः प्रागुत्पत्स्यते यस्या रुक्मिणीसत्यभामयोः । सुनुरुत्पत्स्यमानायाः स वरो दुहितुर्मम ॥२१॥ इति दूतवचः श्रुत्वा प्रीतः संपूज्य तं हरिः। विससर्ज स पत्येऽतः कार्यसिद्धि न्यवेदयत् ॥२२॥ तां वार्तामुपलभ्याऽसौ भामा भीष्मजांतिकं । व्यसृजन्निजदूतीस्ताः पादयोः प्रणता जगुः ॥२३॥ स्वामिनि ! स्वामिनी नस्त्वामिति वक्ति वचो वरं । अवतंसमिव श्लाघ्यं कुरु कर्णे मनस्विनि॥२४॥ आवयोः प्रथमं यस्यास्तनयोऽत्र भविष्यति । सुतां दुर्योधनस्यासौ भाविनीं परिणेष्यति ॥२५॥ तत्रापत्यविहीनाया विलूनालकबल्लरीं । स्नास्येते तावधः कृत्वा पादयोस्तु वधूवरौ ॥२६॥ प्रशस्यं च यशस्यं च यशोभागिनि भागिनि । यदि ते रोचते कार्यमिदमार्येऽनुमन्यतां ॥२७॥ कर्णामृतमिवाकर्ण्य तन्नित्य जगावसौ। तथाऽस्त्विति ततोगत्वा ताः स्वामिन्यै न्यवेदयत्।।२८॥ रुक्मिणी तु शिरःस्नाता शयिता शयने निशि । स्वप्ने हंसविमानेन विजहार किलांबरे ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org