________________
हरिवंशपुराणं।
५१९
त्रिचत्वारिंशः सर्गः । एकदा मुखतांबूलं निष्ठयूत भीष्मजन्मना । सोऽशुकांत्येन संगोप्य सत्यभामागृहं गतः॥४॥ स्वभावमुखसौगंध्यबद्धभ्रांतालिमंडलं । अहरत्सत्यभामा तद् भ्रांत्या सद्धवस्त्विति ॥५॥ वर्णगंधाढ्यमापिष्य समालभत चादरात् । हसिता हरिचंद्रेण सा चुक्रोश तमीर्षया ॥६॥ सौभाग्यातिशयं सत्या सपत्न्या हरिचेष्टितैः । विदित्वा रूपलावण्यं द्रष्टुमभ्युत्सुकाऽभवत् ॥७॥ अवदच्च पति नाथ ! रुक्मिणीं मम दर्शय । श्रोत्रयोरिव संहृष्टिं नेत्रयोरपि मे कुरु ॥८॥ प्रतिपद्य स तद् वाक्यमंतगूढो विनिर्गतः । मणिवाप्यास्तटे कांता संस्थाप्य पुनरागतः॥९॥ आनयामि तवाभीष्टां विशोद्यानमिति प्रियां । संप्रेष्यानुगतस्तस्थौ गुल्मसंगूढविग्रहः ॥१०॥ तावच्च मणिवाप्यते मणिभूषणधारिणी । पादाग्रेण स्थितां चूतलतामालंब्य पाणिना ॥११॥ प्रोल्लसत्स्थूलधम्मिल्लां वामहस्तेन बिभ्रतीं । स्तनभारनतामूलफलन्यस्तायतेक्षणां ॥१२॥ निरूप्य रुक्मिणी सत्या देवतामिव रूपिणी । देवतेयमिति ध्यात्वा विकीर्य कुसुमांजलिं ॥१३॥ निपत्य पादयोस्तस्याः स्वसौभाग्यमयाचत । विपक्षस्य तु दौर्भाग्यमीयाशल्यकलंकिता ॥१४॥ अंतरेऽत्र हरिः सत्यां हारिस्मितमुखोऽवदत् । अपूर्व दर्शनं स्वस्रोरहोवृत्तं नयान्वितं ॥१५॥ श्रुत्वा तत्सत्यभामोचे ज्ञाततत्त्वा रुषान्विता । किं भवानयदित्थं नौ दर्शनं किं तवेति तं॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org