________________
हरिवंशपुराणं ।
५१८
तया प्रथमबुद्धया प्रथमसंध्ययेवोषसि प्रशस्तकरपद्मया विहितदेहसंवाहनः । विबुध्य हरिराश्रितां श्रियमिव व्यलोकिष्ट तां रतिव्यतिकरस्फुरत्परिमलां ह्रिया सन्नतां ॥ १०८॥ प्रभातपटहस्फुटध्वननशंख संगीतकप्रघोषघनगर्जितां बुधिनिनादिनी द्वारिका । गृहं गृहमितो तो बुधितराजलोकाभवत् यथायथमनुष्ठितस्वकनियोग सर्वप्रजा ॥ १०९॥ परैर्घटितमप्यतो विघटयन् पदार्थ झटित्युपेत्य प्रतिपत्य दुर्विघटितं समर्थक्रियः । परं भुवनचक्षुरुज्ज्वलमनिद्रमभ्युद्ययौ यथा जिनवचपथो विधिरिवाऽथ वा भानुमान् ॥११०॥ इति “अरिष्टनेमि''पुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ रुक्मिणीहरणवर्णनो नाम द्वाचत्वारिंशः सर्गः ।
त्रिचत्वारिंशः सर्गः ।
त्रिचत्वारिंशः सर्गः ।
सत्यभामागृहाभ्यर्णमाकीर्ण द्रव्यसंपदा । धिष्ण्यं विष्णुर्ददौ दिव्यं रुक्मिण्यै परिचारवत् ॥ १ ॥ महत्तरप्रतीहारी भृत्यादि परिवारतः । यानाश्वरथयुग्यादि पत्या गौरवितात् ||२|| ज्ञात्वा भामा हरीष्टां तां भामां भामातिशायिनीं । सा सेर्ष्याऽपि हरिं धीरा रहः क्रीडाखरीरमत्॥३॥ १ 'परिवारतः' अथवा 'परिवारवत्' इत्यपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org