________________
हरिवंशपुराणं।
५१७
द्वाचत्वारिंशः सर्गः । ततोऽजनमहारजोमलिनमूर्तिभिर्मोहनैः प्रभंजनवशैरिव प्रतिभयावहैरुद्धतैः। . तमःपटलपातकैरभिपतद्भिरत्युन्मुखैः खलैरिव निरंतरैर्जगदभिङ्गुतं च द्रुतं ॥१०२॥ किरन्नमृतदीधितिबहलमंधकारं करैः तृषेव जनलोचनैः सपदि पीयमानस्ततः । जगन्मदनदीपनस्तपनजातसंतापनुत् सखा सुमुखिनामपि प्रकटमुजगामोदयं ॥१०३।। विकाशमगमद् विधोः कुमुदिनी करामर्शनाजगत्यखिलजंतुभिः सह निजप्रियाप्रोषितैः। तदा न खलु पद्मिनी विरहदीप्तचक्राहयैरहो प्रमदहेतवोऽपि सुखयंति नो दुःखितान् ॥१०४॥ प्रदोषसमये ततो मुषितमानिनीमानके प्रवृत्तवति दंपतिप्रमदसंपदापादने । सुधाधवलचंद्रिकाधवलितेषु हर्येषु ते मनोज्ञवनितासखास्तु परिरेमिरे यादवाः॥१०५।। मुरारिरपि रुक्मिणीतनुलताद्विरेफस्तदा चिरं रमितया तयाऽरमत रम्यमूर्तिनिशि । अशेत शयनस्थले मृदुनि गूढगूढांगनाधनस्तनभुजाननस्पर्शलब्धनिद्रासुखः ॥१०६।। ततः प्रमितयामिनीनिखिलयामभेदा मदप्रसुप्तयदुकामिनीजनभियेव नीचोच्चकैः । क्रमेण पटुपक्षपातसुभगाश्चुकूः कलं क्षपाक्षयनिवेदिनो विविधचूडकाः कुक्कुटाः ॥१०७॥
१ सुखिनामपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org