________________
•
हरिवंशपुराणं ।
५१६
arraftशः सर्गः ।
अंगुलीयकनं च वज्रं संचू पाणिना । तस्याः संदेहमामूलं चिच्छेद यदुनंदनः ॥ ९१ ॥ ततः सा प्रांजलिः प्राह प्रियसामध्य वेदिनी । नाथ ! यत्नेन मे भ्राता रक्षणीयस्त्वयाहवे ।। ९२ । एवमस्त्विति संत्रस्तां शांतयित्वा प्रियां हरिः । न्यवर्त्तयद्रथं वेगादस्य मित्रं हली तथा ||९३ || रुष्टयोः शरजालेन द्विष्टसैन्यं ततोऽनयोः । श्लिष्टं ननाश विध्वस्तक्लिष्टदर्पमभिद्रुतं ॥ ९४ || हरिणेव रणे रौद्रे हरिणा दमघोषेजः । हलिना भीष्मजो राजा भीष्माकारः पुरस्कृतः || ९५|| द्वंद्वयुक्ते शिरस्तुंगं शिशुपालस्य पातितं । विष्णुना यशसा साकं सायकेन विदूरतः ||९६ || हली जर्जरितं कृत्वा रथेन सह रुक्मिणं । प्राणशेषमपाकृत्य कृती कृष्णयुतो ययौ ॥ ९७ ॥ रुक्मिणीं परिणीयासौ गिरौ रैवतके हरिः । विभूत्या परया तुष्टः सबंधुरविशत् पुरीं ॥ ९८ ॥ स्वं विवेश गृहं शीरी रेवतीदर्शनोत्सुकः । शार्ङ्गपाणिरपि प्रीतो नववध्वा युतो निजं ॥ ९९ ॥ अनेकरथचक्रचूर्णिविजिगीषुतेजोहरं निरीक्ष्य शिशुपालघातचरितं हरेराहवे । वपुः स्वमुपसंहरन् करसहस्रतीक्ष्णोऽप्यरं गतोस्तगिरिगहरं ग्रहणशंकयेवांशुमान् ॥ १०० ॥ अनेन घनरागिणा समनुवर्त्तिता रागिणी महोदयनिषेविणाप्यनुरतेन पूर्व तु या । तयाऽस्तमितसंपदं तमनुवृत्तया संध्यया कुशुंभकुसुमाभया तदनुरक्तता दर्शिता ॥ १०१ ॥ १ शिशुपालः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org