SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुरा। ५१५ द्वाचत्वारिंशः सर्गः । रुक्मी विदितवृत्तांतः शिशुपालश्च सत्त्वरौ । धीरौ धीरौ परिप्राप्तौ रथिनौ रथिनौ प्रति ॥८॥ रथैः षष्टिसहस्रेस्तैः करिणामयुतेन च । त्रिभिः शतसहस्रैश्च वाजिनां वायुरंहसां ॥८१॥ असिचक्रधनुःपाणिबहुलक्षपदातिभिः । असमानौ दिशो शेषा निकटत्वमुपागतौ ।।८२॥ अर्धासनसुखासीनां सान्त्वयन भीष्मजां हरिः। ग्रामाकरसरःसिंधुदर्शयन् प्रययौ शनैः ॥८३॥ अथ रौद्रं बलं प्राप्तमन्वीक्ष्य हरिणेक्षणा । रुक्मिण्युवाच भारमपायपरिशंकिनी ॥८४॥ भ्राता मे कुपितः प्राप्तः संप्रत्येव महारथः । शिशुपालश्च तन्नाथ न मन्ये स्वंतमात्मनः ॥८५॥ युवयोः पृथुसेनाभ्यामाभ्यां जाते महारणे । विजयं प्रति संशीतिरहो मे मंदभाग्यता ॥८६॥ ब्रुवाणामिति तां शाी मा भैषीदृदुमानसे । बहुत्वेन किमन्येषां मयि सत्त्ववति स्थिते ।।८७॥ तयोक्तं मुनिरादेशः सप्ततालान्जून पुमान् । यच्छिनत्त्येकबाणेन स हरिनान्यथा शुभे ॥८८॥ तद्वचः शोरिणा श्रुत्वा क्रमेणाक्रम्य तत्स्थिरं ! स चिच्छेद क्षुरप्रेण रिज्वतां तालमंडली ॥८९॥ इत्युक्त्वाऽसौ क्षुरप्रेण क्षिप्रमप्राकृतास्त्रवित् । अयत्नेनैव चिच्छेद तालवृक्षं पुरास्थितं ॥१०॥ १ लक्षण । २ अष्टाशीतिनवाशीतितमौ श्लोकौ ख पुस्तके न स्तः इदंच सुष्ठ प्रातभाति । ३ “आक्रम्य क्रमतः स्थिरंग इत्यपि । ४ तालवृक्षान पुरःस्थितान् इत्यपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy