________________
हरिवंशपुराणं ।
५१४
द्वाचत्वारिंशः सर्गः ।
इतश्चावसरज्ञेन नारदेन रहस्यरं । चोदितो हरिरप्याप्तो गूढवृत्तः सहाग्रजः ||६७ || दत्तनागवलिः कन्या पुरोपवनवर्त्तिनी । पितृष्वस्रादिभिर्युक्ता माधवेन निरीक्षिता || ६८ || श्रुतींधनसमृद्धोऽनुरागबंधहुताशनः । अतिवृद्धिं तदा प्राप्तस्तयोर्दर्शनवायुना ||६९ || कृतोचितकथस्तत्र रुक्मिणीमाह माधवः । त्वदर्थमागतं भद्रे ! विद्धि मां हृदयस्थितं ॥७०॥ सत्यं यदि मयि प्रेम त्वया बद्धमनुत्तरं । तदेहि रथमारोह मन्मनोरथ पूरणि ॥७१॥ पितृष्वस्राऽपि साऽवाचि योऽतिमुक्तकभाषितः । स एव तव कल्याणवरः पुण्यैरिहाहृतः ॥७२॥ यत्रापि पितरौ भद्रे ! दातारौ दुहितुर्मतौ । तत्राऽपि विधिपूर्वी तौ ततो ज्येष्ठो विधिर्गुरुः ॥७३॥ सानुरक्तां त्रपायुक्तां श्रीमत्यास्तनया ततः । रथमारोपयद्दोर्भ्यामुत्क्षिप्यामीलितेक्षणः ॥७४॥ निर्वाहकस्तयोरासीदन्योन्यसुखावहः । सर्वांगीण स्तनुस्पर्शः प्रथमो मन्मथार्त्तयोः ॥ ७५॥ सुगंधिमुखनिश्वासस्तयोरन्योन्ययोगतः । वास्यवासकभावस्थो वशीकरण तामगात् || ७६ || विमुखीकृतचैद्येन सम्मुखीकृत विष्णुना । विधिनैकेन रुक्मिण्यास्तत्कल्याणमनुष्ठितं ॥७७॥ रुक्मिणः शिशुपालस्य भीष्मस्य च हरिस्ततः । रुक्मिणीहरणोदतं दत्त्वा रथमचोदयत् ॥७८॥ पांचजन्यमतो दध्मौ मुखरीकृतदिग्मुखं । सुघोषं तु बलः शंखं चुक्षोभाविलं ततः ॥ ७९ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org