________________
हरिवंशपुराणे ।
५१३
द्वाचत्वारिंशः सर्गः ।
त्वं पुनः शिशुपालाय बाले ! बांधवतां युजे । सुप्रभुत्वभृता भ्रात्रा रुक्मिणी किल दीयते ॥ ५५ ॥ विवाहसमयस्तेऽपि प्रत्यासन्नस्तु वर्तते । अद्य श्वो वा त्वदर्थं च शिशुपालः किलैष्यति ॥ ५६ ॥ विदर्भपतिपुत्री तन्निशम्य वचनं जगौ । कथमस्य मुनेर्वाक्यमन्यथा भवति क्षितौ ||५७|| तन्मदीयमभिप्रायं कथंचिदपि सत्वरं । द्वारिकापतये यत्नात् प्रापयेति स मत्प्रियः ||५८|| इति श्रुत्वा मनोज्ञात्वा कन्यकायाः पितृष्वसा । विससर्ज रहस्येनं लेखमाप्तेन सत्वरं ॥ ५९ ॥ त्वन्नामग्रहणाहारप्रीणितप्राणधारिणी । हरे ! कांक्षति ते रक्ता रुक्मिणी हरणं त्वया ॥६०॥ शुक्लष्टम्यां हि माघस्य यदि माधव ! रुक्मिणीं । त्वमेत्य हररासे क्षिप्रं तवेयमविसंशयं ॥ ६१ ॥ अन्यथा तु वितीर्णायाश्चैद्याय गुरुबांधवैः । त्वदलाभे भवेदस्याः शरणं मरणं हरे ! ||६२|| नागवल्यपदेशेन वाह्योद्यानस्थितामिमां । तदवश्यं त्वमागत्य स्वीकुरुष्व कृपापरः ||६३ || लेखार्थमिति तत्त्वार्थमधिगम्य स माधवः । सावधानमनास्तस्थौ रुक्मिणीहरणं प्रति ॥ ६४ ॥ कन्यादानकृतारंभविदर्भेश्वरवाक्यतः । चेदीनामीश्वरः प्राप्तो वैदर्भपुरमादरात् ||६५|| बलेन महता तस्य चतुरंगेण रागिणा । मंडिताशांतरं जातं कुंडिनं नगरं तदा ||६६॥ १ शिशुपालः ।
३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org