________________
हरिवंशपुराणं ।
द्वाचत्वारिंशः सर्गः ।
सांजलिः प्रणनामासौ प्रत्युपेत्य तमादरात् । द्वारिकापतिपत्याप्त्या सोऽभ्यनंदयदानतां ||४२ || प्रश्नितेन तथा तेन द्वारावत्या विकीर्त्तने । कृतेऽनुरागिणी कृष्णे रुक्मिणी नितरामभूत ||४३|| कृष्णं भीष्मसुताचित्तभित्तौ नारदचित्रकृत् । वर्णरूपवयोविद्धं विलिख्य वहिरुद्ययौ ॥ ४४ ॥ विलिख्य पट्टके स्पष्टं रुक्मिण्या रूपमद्भुतं | हरयेऽदर्शत्वा चित्तसंमोहकारणं || ४५ ॥ दृष्ट्वा चित्रगतां कन्यां श्यामां स्त्रीलक्षणाचितां । पप्रच्छ हरिरित्येवं द्विगुणादरसंगतः || ४६ || कस्येयं भगवन् ! कन्या विचित्रा पट्टके त्वया । दुष्करं मानुषी क्षिप्ता विचित्रासुरकन्यका ॥४७॥ इति पृष्टोऽवदत्सोऽस्मै यथावृत्तमवंचकः । श्रुत्वा सौरिरपि प्राप्तचिंतां कन्याकरग्रहे ||४८ || काले पितृष्वसा तस्मिन्नेकांते हितकाम्यया । रुक्मिणीमित्यभाषिष्ट सर्ववृत्तांतवेदिनी ॥ ४९॥ आकर्णय वचो बाले कदाचिदतिमुक्तकः । दिव्यचक्षुरिहायातस्त्वां दृष्ट्वाददित्यसौ ॥ ५० ॥ स्त्री लक्षणवती लक्ष्मीरिव वक्षःस्थलाश्रिता । बालेयं वासुदेवस्य भविष्यति भविष्यतः ॥ ५१ ॥ षोडशानां सहस्राणां विष्णोः स्त्रीगुणसंयुजां । अंतरंतःपुरस्त्रीणां प्रभुत्वमियमेष्यति ॥ ५२ ॥ इत्यादिश्य तदायातः सिद्धादेशो महामुनिः । कथा चांतर्हिता विष्णोः कियतं चिदनेहसं ॥ ५३ ॥ पुनर्जन्मकथेवेयं नारदेन कथा कृता । यदि सत्यमिदं सर्वं सत्यं वेद्मि मुनेर्वचः ॥ ५४ ॥
Jain Education International
५१२
For Private & Personal Use Only
www.jainelibrary.org