________________
हरिवंशपुराणं ।
५११
द्वाचत्वारिंशः सर्गः ।
सत्यभामा त्वियं रूपमदगर्वितमानसा । धिग् मां नालोकतेस्मापि धृष्टा विद्याधरात्मजा ॥ २९ ॥ तदस्या रूपसौभाग्यगर्वपर्वतचूरणं । प्रतिपक्षबधूवज्रसंतापेन करोम्यहं ||३०|| रूपसौभाग्यतो ह्यन्यां सत्यभामातिशातिनीं । हरिर्लघु लभेत् कन्यां बहुरत्ना वसुंधरा ॥३१॥ ततः पश्यामि भामाया निश्वासश्याममाननं । कुतोऽनर्थविमोक्षः स्यात् कुपिते मयि नारदे ||३२|| इति ध्यायन् खमुत्पत्य कुंडिनाख्यमयात्पुरं । यत्र भीष्मो नृपस्तिष्ठत्यरिभीष्मो महान्वयः ॥ ३३ ॥ रुक्मीति तनयस्तस्य नयपौरुषषोषणः । रुक्मिणी च शुभा कन्या कलागुणविशारदा ||३४|| तां ददर्श च शुद्धां शुद्धांतःकरणश्रितां । पितृष्वसानुरागिण्या संध्ययेवोदयश्रियं ||३५|| सौलक्षण्यं च सौरुप्यं सौभाग्यं त्रिजगद्गतं । गृहीत्वेव हरे पुण्यैः परमैस्तां विनिर्मितां ॥३६॥ पाणिपादमुखांभोजजंघो रुजघनश्रिया । रोमराजिभुजाना भिकुचोदरतनुत्विषा ||३७| भ्रूकर्णाक्षिशिरःकंठघोणाधरपुटोभया । अभिभूयोपमा सर्वा स्थितां जगति तां परां ॥ ३८॥ दृष्ट्वाऽसौ विस्मितो दध्यौ दृष्ट्टाने कांगनोत्तमः । अहो रूपस्य पर्यंते कन्येयं वर्त्तते भुवि ॥३९॥ संयोज्य हरिणा कन्यामनन्यसदृशीमिमां । भनज्मि सत्यभामाया रूपसौभाग्यदुर्मदं ॥ ४० ॥ इति ध्यायंतमायातं नारदं वीक्ष्य रुक्मिणी । अभ्युत्तस्थौ रणभूषा स्वभावविनयैकभूः ॥ ४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org