________________
हरिवंशपुराण।
५१०
द्वाचत्वारिंशः सर्गः । संक्रीडमानमेकांते तावत्तं ज़ुभकामराः । दृष्टा पूर्वभवस्नेहान्नीत्वा वैताब्यपर्वतं ॥१७॥ मणिकांचनसंज्ञायां गुहायां तत्र तं शिशुं । कल्पवृक्षसमुद्भूतैर्दिव्याहारैरवर्द्धयन् ॥१८॥ स्वेष्टाय तेऽष्टवर्षाय सरहस्यं जिनागमं । देवास्तस्मै ददुस्तुष्टा विद्यां चाकाशगामिनीं ॥१९॥ नारदो बहुविद्योऽसौ नानाशास्त्रविशारदः । संयमासंयम लेभे साधुः साधुनिषेवया ॥२०॥ कंदर्पस्य विजेतापि कंदर्पनिभविभ्रमः । सकंदर्पप्रियो हासशीलोऽभूल्लोभवर्जितः ॥२१॥ अंत्यदेहः प्रकृत्यैव निकषायोऽप्यसौ क्षितौ । रणप्रेक्षाप्रियः प्रायो जातो जल्पांकभास्करः ॥२२।। जिनजन्माभिषेकादिमहातिशयदर्शने । कुतूहलितया लोकं परिभ्रमति विभ्रमी ॥२३॥ स एष नारदो राजन् परिपृच्छय यदुत्तमान् । केशवांतःपुरं दृष्टुं प्रविष्टोऽतःपुरालयं ॥२४॥ तत्र विष्णोर्महादेवीं प्राणेभ्योऽपि गरीयसीं । धृतप्रसाधनां साध्वी करस्थे मणिदर्पणे ॥२५॥ प्रेक्षमाणां निजं रूपं सत्यभामां विदूरतः । अद्राक्षीनारदः साक्षाद् दृष्टे रतिमिव स्थितां ॥२६॥ स्वरूपालोकनाक्षिप्तचेतसा सत्यया यतिः । न दृष्टः सहसा रुष्टो निजंगाम ततो द्रुतं ॥२७॥ दध्याविति स लोकेऽस्मिन् सविद्याधरभूचराः । मामुत्थाय नमस्यंति राज्ञामंतःपुरस्त्रियः ॥२८॥
१ कंदर्पण सह वर्तते इति सकंदर्पास्तेषां प्रियः । २ वाचालभानुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org