SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५०९ द्वाचत्वारिंशः सर्गः । देह स्थितेन शुद्धेन त्रिगुणेनोज्ज्लीकृतः । यज्ञोपवीतसूत्रेण सरत्नत्रितयेन वा ॥५॥ असाधारणरूपेण गौरवाधानहेतुना । नैष्ठिकब्रह्मचर्येण पांडित्येनैव मंडितः ||६|| शुद्धप्रकृतिरत्यंतम रिषडुर्गवर्जितः । राज्योदय इवोदारो राजलोकस्य पूजितः ॥७॥ द्वारिकाविभवालोक से शिरःकंपविग्रहं । तेऽवतीर्णं तमालोक्य सहसोत्थाय पार्थिवः ||८|| नमस्यासनदानादि सोपचारेण सक्रमं । पूजयंति स्म सन्मानमात्रेण परितोषिणं ||९|| जिन कृष्णबला लोकसंभाषणसुखामृतं । पीत्वाप्यतृप्तनेत्रस्त मध्यतिष्ठत्सभार्णवं ॥ १० ॥ पूर्वापरविदेहानां जिनेंद्राणां कथामृतैः । समेरुवंदनोदतैर्मनोऽमीषामतर्पयत् ||११|| प्रस्तावेऽत्र गणिज्येष्ठं श्रेणिकोऽपृच्छदित्यसौ । क एष नारदो नाथ ! कुतो वाऽस्य समुद्भवः ॥ १२॥ गण्युवाच वचोगण्यः शृणु श्रेणिक ण्यते । उत्पत्तिरत्यदेहस्य नारदस्य स्थितिस्तथा || १३ || आसीत्सौर्य पुरस्यां दक्षिणे तापसाश्रमः । वसंति तापसास्तस्मिन् फलमूलादिवृत्तयः ||१४|| सुमित्रस्तपसस्तत्र स सोमयशसि स्त्रियां । उंछवृत्तिः शशिच्छायं पुत्रमेकमजीनत् ॥ १५ ॥ तमुत्तानशयं यावत्तौ संस्थाय तरोरधः । उंछवृत्यर्थमायातौ नगरं क्षुत्पिपासितौ ॥ १६ ॥ १ स्वशिरः कंपविभ्रमं इत्यपि । २ चरमशरीरस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy