________________
हरिवंशपुराणं।
५०८
द्वाचत्वारिंशः सर्गः । स्वांतरंगजनैर्जातु क्रियमाणासु केलिषु । स्वविवाहकथावीशः स्मेरास्यो लज्जते स्वयं ॥५५॥ बोधत्रयांबुनिधूतमोहनीयकलंकजं । न तस्य भूतिधूलीभिर्धसरीकृतमांतरं ॥५६॥
जैनैर्वाष्र्णैवैष्णवै लभद्रेश्चंद्रालोकप्राकटैः सद्गुणोधैः ।
स्पष्टात्यर्थं हृष्टलोकोर्मिराभाद्वेलेवाब्धेरिका द्वारकांता ॥५७॥ इत्यारिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ द्वारवतीनिवेशवर्णनो नाम एकचत्वारिंशः सर्गः ।
द्वाचत्वारिंशः सर्गः। अथ सभ्यसमाकीर्णामन्यदा यादवीं सभां । आजगाम नभोगामी नारदो नमसो मुनिः ॥१॥ आपिशंगजटाभारश्मश्रुकूर्चः शशिद्युतिः । विद्युद्वलयविद्योतिशारदांबुधरोपमः ॥२॥ विचित्रवर्णविस्तीर्णयोगपट्टविभूषितः । परिवेषवतो विभदौषधीशस्य विभ्रमं ॥३॥ चलढुकूलकौपीनपरिधानपरिच्युतः । दिवोऽनुग्रहबुद्धथैव जगतः कल्पपादपः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org