SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ५०७ पकचत्वारिंशः सर्गः। पूर्णभद्रोपदिष्टेषु भद्रेषु भुवनेष्वमी । यथास्वेच्छं सुखं तस्थुः प्रजाश्च निजसंस्थया ॥४३॥ माथुराः सौरजा वीरपुरपौराः पुरा यथा । यथास्वं कृतसंकेतसंनिवेशा ययुर्धतिं ॥४४॥ पुर्यामर्धचतुर्थानि दिनानि धनदाज्ञया । यक्षा ववृषुरक्षीणधनधान्यादि धामसु ॥४५॥ तत्र स्थितस्य कृष्णस्य प्रतापेन वशीकृताः । अपरांतिकभूपालाः शासनं प्रतिपेदिरे ॥४६॥ बहुराजसहस्राणां तनयाः ससहस्रशः । परिणीय ततो रमे यथेष्टं द्वारिकापतिः ॥४७॥ तत्र नेमिकुमारोऽपि कुमार इव चंद्रमाः। संवर्धते स्म निःशेषकलानिलयविग्रहः ॥४८॥ दशाहवदनांभोजविकाशकरणोदयः । बालभानुर्बभासेऽसौ ज्योतिधूततमस्तरः ॥४९॥ रामदामोदरानंदं प्रत्यहं प्रतिवर्धयन् । चकार क्रीडितं बाल्ये पौरनेत्रमनोहरं ॥५०॥ समस्तयदुपत्नीनां करात्करमितस्ततः । अलंकुर्वन्नरूपी स ययौ यौवनोदयं ॥५१॥ प्रव्यक्तलक्षणे तत्र यूनि श्यामांबुजेक्षणे । विश्रांतदृष्टिमन्यत्र नेतुं शेकुर्न योषितः ॥५२॥ जिनरूपशरो दूराज्जगतो हृदयस्थली । विभेद न पुन नी पररूपशरायतिः ॥५३॥ नोपमा जिनरूपस्य नोपमेयं क्षितौ यतः। उपमानोपमेयार्थ खिद्यतेस्म हरिस्ततः ॥५४॥ १ यथायथमित्यपि पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy