________________
हरिवंशपुराणं ।
५०६
एकचत्वारिंशः सर्गः ।
उग्रसेनादिभूपानां योग्या भवनकोटयः । साष्टकक्षांतरास्तत्र सर्वेषामपि रेजिरे ||३१|| अशक्यवर्णनां दिव्यां बहुद्वारवतीं पुरीं । निर्माय वासुदेवाय राजराजो न्यवेदयत् ॥ ३२॥ किरीटं वरहारं च कौस्तुभं पीतवाससी । भूषा नक्षत्रमालादि वस्तु लोके सुदुर्लभं ||३३||
कुमुद्वतीं शक्तिं खड़े नंदकसंज्ञकं । शांगे धनुश्च तूणीरयुग्मं वज्रमयान् शरान् ||३४|| सर्वायुधयुतं दिव्यं रथं सगरुडध्वजं । चामराणि सितच्छत्रं हरये धनदो ददौ ||३५|| मेचकं वस्त्रयुगलं मालां च मुकुटं गदां । लांगलं मुशलं चापं सशरं शरधिद्वयं ॥ ३६ ॥ रथं दिव्यास्त्रसंपूर्णमुच्चैस्तालं ध्वजोर्जितं । कुबेरः कामपालाय ददौ छत्रादिभिः सह ||३७|| भ्रातरोऽपि दशाहस्ते वस्त्राभरण पूर्वकैः । संप्राप्तपूजनास्तेन भोजाद्याश्च नृपाः कृताः ||३८|| तीर्थकृत्पुनरन्यूनैर्वयोयोग्यैः सुवस्तुभिः । प्राज्यैः पूजनमेवासौ किं तत्र बहुवर्णनैः ||३९|| प्रविशतु पुरी सर्वे भवंत इति रैपतिः । तानुक्त्वा पूर्णभद्रं च संदिश्यांतर्हितः क्षणात् ||४०|| ततो यादवसंघास्तावभिषिच्यां बुधेस्तटे । जयशब्देन संघुष्य हृष्टा हलगदाधरौ ॥ ४१ ॥ विविशुर्द्वारिकां भूत्या चतुरंगबलान्विताः । सप्रजाः कृतपुण्यास्ते प्राप्तां दिवमिव स्वयं ||४२ || ९ बलभद्राय । २ कुबेरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org