SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ५०३ एकचत्वारिंशः सर्गः। यदवोऽपि ययुः स्वेच्छमुपकंठमुदन्वतः । एलावनलतासंगसद्धानिलवीजितं ॥ ४४ ॥ अपरार्णवमासृत्य दूरदेशनिवेशनाः । यथास्वं ते नृपास्तस्थुः प्रजाः प्रकृतयस्तथा ॥४५॥ पाणिग्राहितयानुमार्गमघृणो लग्नोऽतिनिबंधतः । संधावन् परनाशमाशु कुपितः कर्तुं च मर्तुं स्वयं ॥ . ज्वालारुद्धपथो न्यवर्त्तत रिपुर्यद्धन्यसर्वक्रिया स्तज्जैनाः कथयति तावदनयोः पुण्योदयः श्रूयतां ॥ ४६॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतो हरिवंशयादवप्रस्थानवर्णनो नाम चत्वारिंशः सर्गः। एकचत्वारिंशः सर्गः। दिदृक्षया ततो याताः क्षत्रियाः क्षुब्धतोयधेः । ते दशार्हमहाभोजविष्णुनेमीश्वरादयः॥१॥ ततः शीकरिणं मत्तमिव दिक्करिणं मुहुः । झषस्फुरणलीलेषदुन्मीलननिमीलनं ॥२॥ महत्खस्पर्द्धयेवोर्ध्वमूर्मिदोमंडलैश्चलैः । आस्फालयितुमाकाशमाशानुगतमूर्जितं ॥३॥ घूर्णमानमुदा|ग्रमकरग्राहविग्रहं । मकराकारमैक्षत मकरीकारिणीवृतं ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy