________________
हरिवंशपुराणं।
५०२
चत्वारिंशः सर्गः। ज्वालारुद्धपथस्तत्र विश्रांतनिजसाधनः । अपृच्छद्रुदतीमेकां स्थीवरीभूय देवतां ॥३१॥ दह्यते विपुलः कस्य स्कंधावारोऽयमाकुलः । किमर्थ रोदिषि त्वं च वद वृद्ध ! यथास्थितं ॥३२॥ इति पृष्टा समाचष्टे तस्मा अश्राविलक्षणा । शोकं निगृह्य कृच्छ्रेण रुद्ध कंठेऽपि मन्युना ॥३३॥ वदामि शृणु तेजस्विन् ! यथादृष्टं यतो जनः । निवेद्य महते दुःखान्महतोऽपि विमुच्यते ॥३४॥ अस्ति राजगृहे राजा जरासंध इति श्रुतिः। सत्यसंधः स यः शास्ति सागरांतां वसुंधरां ॥३५॥ वाडवार्चिश्छलेनास्य नूनमंबुनिधावपि । प्रज्वलंति द्विषां शांत्य प्रतापदहनार्चिषः ॥३६॥ आत्मापराधबाहुल्यात्सशल्यहृदयास्ततः । यादवाः कापि संत्रस्ताः प्रयांतः प्रियजीविताः ॥३७॥ ते काश्यप्यामपश्यंतः संतःसशरणं कचित् । प्रविश्य दहनं याताः शरणं मरणं परं ॥३८॥ कुलक्रमागता तेषां भुजिष्या भूभुजामहं । स्वामिदुर्मतिदुःखार्ता रोदिमि प्रियजीविता ॥३९॥ यादवाः कौरवा भोजाः प्रजाः प्रकृतिभिः सह । अनुलग्नजरासंधाः प्रलीना हुतभुग्मुखे ॥४०॥ अहं तु दुःखसंभारनिलयीकृतविग्रहा । सग्रहेव वियोगार्ग प्राणिमि प्राणवल्लमा ॥४१॥ श्रुस्वेति जरतीवाक्यं जरासंधोतिविस्मितः । श्रद्धयान्धकवृष्णीनामन्धयांतममन्यत ॥४२॥ द्रान निवृस्य निजं स्थानं सोऽध्यास्य सह बांधवैः। विपन्नेभ्यो जलंदत्त्वा कृतकृत्य इव स्थितमा४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org