________________
हरिवंशपुराणं ।
५०१
चत्वारिंशः सर्गः ।
आसीनानेवमप्यस्मानभ्येति यदि मागधः । रणातिथ्यं प्रकृत्यैनं प्रेषयामो रणप्रियं ॥ १८ ॥ इति संमय ते मंत्र प्रकाश्य कटके स्वके । आनंदिनीनिनादेन प्रयाणकमजिज्ञपन् ॥ १९ ॥ भेर्यास्तस्या रखं श्रुत्वा चतुरंगबलं ततः । यदुभोजकुलक्ष्माभृत्प्रधान मचलद्वलं ॥२०॥ माथुर्यः शौर्यपूर्यश्च वीर्यपूर्य : प्रजास्तदा । समं स्वाम्यनुरागेण स्वयमेव प्रतस्थिरे ॥२१॥ प्रजाः प्रकृतिभिः सर्वाचातुर्वर्णाः सधार्मिकाः । प्रस्थानं मेनिरे स्थानादुद्यानक्रीडया समं ||२२|| अष्टादशेति संख्याता कुलकोट्यः प्रमाणतः । अप्रमाणधनाकीर्णा निर्याति स्म यदुप्रियाः || २३ || प्रशस्ततिथिनक्षत्रयोगवारादिलब्धयः । सुलब्धसुकुला भूपा जग्मुरल्यैः प्रयाणकैः ||२४|| देशानुल्लंघ्य निःशेषान् प्रतीचीं प्रति गच्छतां । बभूव विपुलस्तेषामुपांते विंध्यपर्वतः ||२५|| गजकाननरम्यस्य सिंहशार्दूलशालिनः । शृंगालीढांबरस्यास्य श्रीर्जहार मनो नृणां ||२६|| अनुवर्त्म जरासंधं तत्रायातं निशम्य ते । प्रत्यैक्षत महोत्साहा यदवोऽपि युयुत्सवः ||२७| अल्पमंतरमालोक्य देवताः सेनयोस्तयोः । भरतार्द्धनिवासिन्यः कालदैवनियोगतः ||२८|| विकृत्य दिव्य सामर्थ्यादंतरे चितिकाश्च ताः । अग्निज्वालापरीतास्तान् दर्शयांचक्रिरे रये ॥ २९ ॥ चतुरंगबलं तच्च दह्यमानमितस्ततः । पश्यति स्म जरासंधो ज्वालालीलढविग्रहं ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org