________________
हरिवंशपुराणं ।
चत्वारिंशः सर्गः ।
त्रिखंडाखंडिताज्ञोऽन्यैः प्रचंड थंडशासनः । चक्रखड़गदादं डरत्नाद्यस्त्रबलोद्धतः ॥६॥ कृतज्ञः कृतदोषेषु प्रणतेषु कृतक्षमः । अस्मास्वनपैकारः प्रागुपकारैकतत्परः ||७|| जामातृभ्रातृघातोत्थपराभवरजोमलं । प्रमाष्टुं कोपवानस्मान्मागधोऽभ्येत्य विभ्यतः ||८|| दैवपौरुषसामर्थ्यमस्मदीयमतिस्मयः । प्रकटीभूतमप्येष पश्यन्नपि न पश्यति ||९|| कृष्णस्य पुण्यसामर्थ्यं पौरुषं च बलस्य च । बाल्यादारभ्य निःशेषमिदं परमवैभवं ॥ १० ॥ नेमितीर्थकरस्यापि देवेंद्रासन कंपिनः । प्रभुत्वं च स्फुटीभूतं बालस्यापि जगत्त्रये ॥११॥ यस्यानुपालने व्यग्राः समग्रा लोकपालिनः । तत्तीर्थकृत्कुले को वा मानुषोऽपकरिष्यति ॥ १२ ॥ करेण कः स्पृशेदज्ञः कृशानुमकृशार्चिषं । तीर्थद्वलकृष्णान्वा कोभ्येति विजिगीषया ॥ १३ ॥ प्रतिशत्रुरयं राजा जरासंधोऽस्य हिंसकौ । ध्रुवमत्र समुद्भूतौ रामनारायणाविमौ ॥ १४॥ तदत्र यावदापत्य सपक्षः कृष्णपावके । प्रतिशत्रुपतंगोऽयं भस्मीभवति न स्वयं ॥ १५ ॥ तावदाशु वयं शूरं शैौरिमैस्मद्वशं परं । विगृह्यासनयोगेन योजयामो जयोन्मुखं ॥१६॥ स्वीकृत्य वारुणीमाशां कानिचिद्दिवसानि वै । विगृह्यासनमेवं हि कार्यसिद्धिरसंशया || १७|| १ अस्मास्वनपकारेषु प्रागुपकारतत्परः । २ पूर्ण इत्यपि । ३ वसुदेवपुत्रं ।
Jain Education International
५००
For Private & Personal Use Only
www.jainelibrary.org