________________
हरिवंशपुराण ।
----
४९९
सौख्यप्रदं शांतिकं पौष्टिकं तुष्टिसंपत्ति संपादि साक्षादिहामुत्र चानेककल्याणसंप्राप्तिहेतोः प्रपुण्यास्रवस्य स्वयं कारणं वारणं सर्व पापाश्रवाणां सहस्रस्य विध्वंसकरणं दारुणस्यापि पूर्वत्र सर्वत्र चानेहसि स्नेहमोदिभावेन संचितस्यैनसः स्तोत्रमुख्यं जिनेंद्रे विधेयादिदं भक्तिभारं परं । इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ जन्माभिषेकवर्णनो नाम एकोनचत्वारिंशः संर्गः ।
चत्वारिंशः सर्गः ।
चत्वारिंशः सर्गः ।
अथ श्रुत्वा जरासंधो भ्रातुर्बधमसौ मृधे । शोकसिंधौ निमग्नोऽरिक्रोधपोतेन धारितः ॥१॥ समस्तयदुनाशाय समस्तनयपौरुषः । सोऽभ्यमित्रमभीतुं मित्रवर्गमजिज्ञपत् ॥२॥ प्रभोस्तस्य समादेशान्नानादेशाधिपा नृपाः । चतुरंगबलोत्तुंगाः श्रिताः स्वामिहितैषिणः ||३|| दत्तप्रयाणमेनं त्वनंतसैन्याब्धिवर्त्तिनं । विविदुर्यदुशार्दूलाश्चतुराश्चारचक्षुषः ||४|| ततः श्रुतवयोवृद्धा वृष्णिभोजकुलोत्तमाः । कर्त्तुमारेभिरे मंत्रमिति तत्त्वनिरूपिणः ||५॥
१ जनपदाधिपाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org