SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ४९८ वयस्यान् कुमारान् सुराणां सुरेंद्रः कुमारस्य सम्यनिरूप्याप्रमत्तं कुबेरं वयोमेदकालयोगं विभोः क्षेमयोग्यं विधेयं समस्तं त्वयेति स्थिरं ज्ञापयित्वा समापृच्छ्य जैनौ गुरू तावनुज्ञां ततः प्राप्तसंप्राप्तलाभः कृतार्थं निजं मन्यमानो यथायातमन्यैरशेषैः सुरेंद्रैश्वतुर्भेददेवानुगैर्यातवान् सिद्धयात्रस्ततो दिक्कुमार्योऽपि संवृत्तकार्या समासाद्य तामार्यपुत्रीं सपुत्रां शिवां संप्रणम्य प्रहृष्टाः प्रजग्मुर्निजस्थानदेशान् दिशस्ता दश द्योतयंत्यः शरीरप्रभाविर्जगन्नेमिचंद्रोऽपि शुभ्रैर्गुणग्राम सांद्रांशुजालैः समाह्लादयन् बालभावेऽप्यबालक्रियो लालितो बंधुवर्गामरैर्वधमानो रराज श्रिया । स्तवनमिदमरिष्टनेमीश्वरस्येष्टजन्माभिषेकाभिसंबंधमाकांत लोकत्रयातिप्रभावस्य पापापनोदस्य पुण्यैकमार्गस्य संसारसारम्य मोक्षोपकंठस्य भव्य प्रजानां प्रमोदस्य कर्तुः प्रमादस्य हर्तुर्धर्मस्योपनेतुर्मुदा श्रूयमाणस्य स्मर्यमाणस्य च संकीर्त्यमानस्य संकीर्तनं पठ्यमानं समाकर्ण्यमानं सदा चित्यमानं सम्यक्त्वज्ञानचारित्ररत्नत्रयस्याभिसंपत्करं चैनं शारीर Jain Education International एकोनचत्वारिंशः सर्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy